संदेश

अष्टकम् लेबल वाली पोस्ट दिखाई जा रही हैं

!! श्रीनृसिंहाष्टकम् !!

चित्र
!!  श्री नृसिंहाष्टकम्  !! सुन्दरजामातृमुनेः प्रपद्ये चरणाम्बुजम्। संसारार्णवसंमग्नजन्तुसंतारपोतकम्॥ श्रीमदकलङ्क परिपूर्ण! शशिकोटि- श्रीधर! मनोहर! सटापटल कान्त!। पालय कृपालय! भवाम्बुधि-निमग्नं दैत्यवरकाल! नरसिंह! नरसिंह!॥1॥ पादकमलावनत पातकि-जनानां पातकदवानल! पतत्रिवर-केतो!। भावन! परायण! भवार्तिहरया मां पाहि कृपयैव नरसिंह! नरसिंह!॥2॥ तुङ्गनख-पङ्क्ति-दलितासुर-वरासृक् पङ्क-नवकुङ्कुम-विपङ्किल-महोरः। पण्डितनिधान-कमलालय नमस्ते पङ्कजनिषण्ण! नरसिंह! नरसिंह!॥3॥ मौलेषु विभूषणमिवामर वराणां योगिहृदयेषु च शिरस्सु निगमानाम्। राजदरविन्द-रुचिरं पदयुगं ते देहि मम मूर्ध्नि नरसिंह! नरसिंह!॥4॥ वारिजविलोचन! मदन्तिम-दशायां क्लेश-विवशीकृत-समस्त-करणायाम्। एहि रमया सह शरण्य! विहगानां नाथमधिरुह्य नरसिंह! नरसिंह!॥5॥ हाटक-किरीट-वरहार-वनमाला धाररशना-मकरकुण्डल-मणीन्द्रैः। भूषितमशेष-निलयं तव वपुर्मे चेतसि चकास्तु नरसिंह! नरसिंह!॥6॥ इन्दु रवि पावक विलोचन! रमायाः मन्दिर! महाभुज!-लसद्वर-रथाङ्ग!। सुन्दर! चिराय रमतां त्वयि मनो मे नन्दित सुरेश! नरसिंह! नरसिंह!॥7॥ माधव! मुकुन्द! मधुसूदन! मुरारे! वामन! नृसिंह! शरणं...

!! श्री परशुरामाष्टकम् !!

चित्र
!! श्री परशुरामाष्टकम् !! शुभ्रदेहं सदा क्रोधरक्तेक्षणम् भक्तपालं कृपालुं कृपावारिधिम् विप्रवंशावतंसं धनुर्धारिणम् भव्ययज्ञोपवीतं कलाकारिणम् यस्य हस्ते कुठारं महातीक्ष्णकम् रेणुकानन्दनं जामदग्न्यं भजे॥1॥ सौम्यरुपं मनोज्ञं सुरैर्वन्दितम् जन्मतः ब्रह्मचारिव्रते सुस्थिरम् पूर्णतेजस्विनं योगयोगीश्वरम् पापसन्तापरोगादिसंहारिणम् दिव्यभव्यात्मकं शत्रुसंहारकम् रेणुकानन्दनं जामदग्न्यं भजे॥2॥ ऋद्धिसिद्धिप्रदाता विधाता भुवो ज्ञानविज्ञानदाता प्रदाता सुखम् विश्वधाता सुत्राताऽखिलं विष्टपम् तत्त्वज्ञाता सदा पातु माम् निर्बलम् पूज्यमानं निशानाथभासं विभुम् रेणुकानन्दनं जामदग्न्यं भजे॥3॥ दुःख दारिद्र्यदावाग्नये तोयदम् बुद्धिजाड्यं विनाशाय चैतन्यदम् वित्तमैश्वर्यदानाय वित्तेश्वरम् सर्वशक्तिप्रदानाय लक्ष्मीपतिम् मङ्गलं ज्ञानगम्यं जगत्पालकम् रेणुकानन्दनं जामदग्न्यं भजे॥4॥ यश्च हन्ता सहस्रार्जुनं हैहयम् त्रैगुणं सप्तकृत्वा महाक्रोधनैः दुष्टशून्या धरा येन सत्यं कृता दिव्यदेहं दयादानदेवं भजे घोररूपं महातेजसं वीरकम् रेणुकानन्दनं जामदग्न्यं भजे॥5॥ मारयित्वा महादुष्ट भूपालकान् येन शोणेन कुण्डेकृतं तर्पणम् येन शोण...

!! श्री कालभैरवाष्टकम् !!

चित्र
!! श्री कालभैरवाष्टकम् !! देवराजसेव्यमानपावनाङ्घ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम्। नारदादियोगिवृन्दवन्दितं दिगम्बरं काशिकापुराधिनाथकालभैरवं भजे॥1॥ भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं नितान्तभक्तवत्सलं समस्तलोकपालकम्। निक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं काशिकापुराधिनाथकालभैरवं भजे॥2॥ भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठनीप्सितार्थदायकं त्रिलोचनम्। कालकालमम्बुजाक्षकन्धराहरं शिवं काशिकापुराधिनाथकालभैरवं भजे॥3॥ शूलटङ्कपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम्। भीमवक्रिमभ्रुवं विचित्रताण्डवप्रियं काशिकापुराधिनाथकालभैरवं भजे॥4॥ रत्नपादुकाप्रभाविरामपादयुग्मकं नित्यमद्वितीयमिष्टदैवतं निरञ्जनम्। मृत्युदर्पनाशनं करालं दंष्ट्रभीषणं काशिकापुराधिनाथकालभैरवं भजे॥5॥ धर्मसेतुपालनमधर्ममार्गनाशनं कर्मपाशमोचनं सुकर्मदायकं प्रभुम्। सुवर्णवर्णकेशपाशशोभिताङ्गनिर्मलं काशिकापुराधिनाथकालभैरवं भजे॥6॥ अट्टहासभिन्नपद्द्मजाण्डकोटिसन्ततिं दृष्टिपातनष्टपापजालमुग्रशासनम्। अष्टसिद्धिदायकं कपालमालिकाधरं काशिकापुराधिनाथकालभैरवं भजे॥7॥ भूतसङ्घनायकं विशालकीर्तिदायकं काशिवासकोकपुण्यपापशोधनप्रभुम्। न...

!! श्री महालक्ष्म्यष्टकम् !!

चित्र
!! श्री महालक्ष्म्यष्टकम् !! नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते। शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते॥1॥ नमस्ते गरुडारूढे कोलासुरभयङ्करि। सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते॥2॥ सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि। सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते॥3॥ सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि। मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते॥4॥ आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि। योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते॥5॥ स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे। महापापहरे देवि महालक्ष्मि नमोऽस्तुते॥6॥ पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि। परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते॥7॥ श्वेताम्बरधरे देवि नानालङ्कारभूषिते। जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते॥8॥ महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः। सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा॥9॥ एककाले पठेन्नित्यं महापापविनाशनम्। द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः॥10॥ त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम्। महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा॥11॥ ॥ इति इन्द्रकृतं महालक्ष्म्यष्टकं सम्पूर्णम् ॥

!! श्री भवान्यष्टकम् !!

चित्र
!! श्री भवान्यष्टकम् !! न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता। न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥1॥ भवाब्धावपारे महादुःखभीरुः पपात प्रकामी प्रलोभी प्रमत्तः। कुसंसारपाशप्रबद्धः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥2॥ न जानामि दानं न च ध्यानयोगं न जानामि तन्त्रं न च स्तोत्रमन्त्रम्। न जानामि पूजां न च न्यासयोगम् गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥3॥ न जानामि पुण्यं न जानामि तीर्थं न जानामि मुक्ति लयं वा कदाचित्। न जानामि भक्ति व्रतं वापि मातर्गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥4॥ कुकर्मी कुसङ्गी कुबुद्धिः कुदासः कुलाचारहीनः कदाचारलीनः। कुदृष्टिः कुवाक्यप्रबन्धः सदाहम् गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥5॥ प्रजेशं रमेशं महेशं सुरेशं दिनेशं निशीथेश्वरं वा कदाचित्। न जानामि चान्यत् सदाहं शरण्ये गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥6॥ विवादे विषादे प्रमादे प्रवासे जले चानले पर्वते शत्रुमध्ये। अरण्ये शरण्ये सदा मां प्रपाहि गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥7॥ अनाथो दरिद्रो जरारोगयुक्तो महाक्षीणदीनः सदा जाड्यवक्त्रः। विपत्तौ प्रविष्टः प्रण...

!! संकट मोचन हनुमानाष्टक !!

चित्र
!! संकट मोचन हनुमानाष्टक !! ॥ मत्तगयन्द छन्द ॥ बाल समय रवि भक्षि लियो तब तीनहुँ लोक भयो अँधियारो। ताहि सों त्रास भयो जग को यह संकट काहु सों जात न टारो। देवन आनि करी बिनती तब छाँड़ि दियो रबि कष्ट निवारो। को नहिं जानत है जग में कपि संकटमोचन नाम तिहारो॥1॥ बालि की त्रास कपीस बसै गिरि जात महाप्रभु पंथ निहारो। चौंकि महा मुनि साप दियो तब चाहिय कौन बिचार बिचारो। कै द्विज रूप लिवाय महाप्रभु सो तुम दास के सोक निवारो। को नहिं जानत है जग में कपि संकटमोचन नाम तिहारो॥2॥ अंगद के सँग लेन गये सिय खोज कपीस यह बैन उचारो। जीवत ना बचिहौ हम सो जु बिना सुधि लाए इहाँ पगु धारो। हेरि थके तट सिंधु सबै तब लाय सिया-सुधि प्रान उबारो। को नहिं जानत है जग में कपि संकटमोचन नाम तिहारो॥3॥ रावन त्रास दई सिय को सब राक्षसि सों कहि सोक निवारो। ताहि समय हनुमान महाप्रभु जाय महा रजनीचर मारो। चाहत सीय असोक सों आगि सु दै प्रभु मुद्रिका सोक निवारो। को नहिं जानत है जग में कपि संकटमोचन नाम तिहारो॥4॥ बान लग्यो उर लछिमन के तब प्रान तजे सुत रावन मारो। लै गृह बैद्य सुषेन समेत तबै गिरि द्रोन सु बीर उपारो। आनि सजीवन हाथ दई तब लछिमन के तुम...

!! श्री सरस्वती अष्टकम् !!

चित्र
!! श्री सरस्वती अष्टकम् !! ॥ शतानीक उवाच ॥ महामते महाप्राज्ञ सर्वशास्त्रविशारद। अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम॥1॥ मरणे यज्जोपेज्जाप्यं यं च भावमनुस्मरन्। परं पदमवाप्नोति तन्मे ब्रूहि महामुने॥2॥ ॥ शौनक उवाच ॥ इदमेव महाराज पृष्टवांस्ते पितामहः। भीष्मं धर्मविदां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः॥3॥ ॥ युधिष्ठिर उवाच ॥ पितामह महाप्राज्ञ सर्वशास्त्रविशारदः। बृहस्पतिस्तुता देवी वागीशेन महात्मना। आत्मायं दर्शयामासं सूर्य कोटिसमप्रभम्॥4॥ ॥ सरस्वत्युवाच ॥ वरं वृणीष्व भद्रं ते यत्ते मनसि विद्यते। ॥ बृहस्पतिरूवाच ॥ यदि मे वरदा देवि दिव्यज्ञानं प्रयच्छ नः॥5॥ ॥ देव्युवाच ॥ हन्त ते निर्मलज्ञानं कुमतिध्वंसकारणम्। स्तोत्रणानेन यो भक्तया मां स्तुवन्ति मनीषिण॥6॥ ॥ बृहस्पतिरूवाच ॥ लभते परमं ज्ञानं यतपरैरपि दुर्लभम्। प्राप्नोति पुरुषो नित्यं महामाया प्रसादतः॥7॥ ॥ सरस्वत्युवाच ॥ त्रिसन्ध्यं प्रयतो नित्यं पठेदष्टकमुत्तमम्। तस्य कण्ठे सदा वासं करिष्यामि न संशयः॥8॥ ॥ इति श्रीपद्मपुराणे सरस्वती अष्टकम् सम्पूर्णम् ॥

!! श्री दुर्गाष्टकम् !!

चित्र
!! श्री दुर्गाष्टकम् !! कात्यायनि महामाये खड्गबाणधनुर्धरे। खड्गधारिणि चण्डि दुर्गादेवि नमोऽस्तु ते॥1॥ वसुदेवसुते कालि वासुदेवसहोदरि। वसुन्धराश्रिये नन्दे दुर्गादेवि नमोऽस्तु ते॥2॥ योगनिद्रे महानिद्रे योगमाये महेश्वरि। योगसिद्धिकरी शुद्धे दुर्गादेवि नमोऽस्तु ते॥3॥ शङ्खचक्रगदापाणे शार्ङ्गज्यायतबाहवे। पीताम्बरधरे धन्ये दुर्गादेवि नमोऽस्तु ते॥4॥ ऋग्यजुस्सामाथर्वाण- श्चतुस्सामन्तलोकिनि। ब्रह्मस्वरूपिणि ब्राह्मि दुर्गादेवि नमोऽस्तु ते॥5॥ वृष्णीनां कुलसम्भूते विष्णुनाथसहोदरि। वृष्णिरूपधरे धन्ये दुर्गादेवि नमोऽस्तु ते॥6॥ सर्वज्ञे सर्वगे शर्वे सर्वेशे सर्वसाक्षिणि। सर्वामृतजटाभारे दुर्गादेवि नमोऽस्तु ते॥7॥ अष्टबाहु महासत्त्वे अष्टमी नवमि प्रिये। अट्टहासप्रिये भद्रे दुर्गादेवि नमोऽस्तु ते॥8॥ दुर्गाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः। सर्वकाममवाप्नोति दुर्गालोकं स गच्छति॥9॥ ॥ इति श्रीदुर्गाष्टकं सम्पूर्णम् ॥

!! श्री यमुनाष्टकम् !!

चित्र
!! श्री यमुनाष्टकम् !! मुरारिकायकालिमाललामवारिधारिणी तृणीकृतत्रिविष्टपा त्रिलोकशोकहारिणी। मनोऽनुकूलकूलकुञ्जपुञ्जधूतदुर्मदा धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥1॥ मलापहारिवारिपूरभूरिमण्डितामृता भृशं प्रपातकप्रवञ्चनातिपण्डितानिशम्। सुनन्दनन्दनाङ्ग-सङ्गरागरञ्जिता हिता धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥2॥ लसत्तरङ्गसङ्गधूतभूतजातपातका नवीनमाधुरीधुरीणभक्तिजातचातका। तटान्तवासदासहंससंसृता हि कामदा धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥3॥ विहाररासखेदभेदधीरतीरमारुता गता गिरामगोचरे यदीयनीरचारुता। प्रवाहसाहचर्यपूतमेदिनीनदीनदा धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥4॥ तरङ्गसङ्गसैकताञ्चितान्तरा सदासिता शरन्निशाकरांशुमञ्जुमञ्जरीसभाजिता। भवार्चनाय चारुणाम्बुनाधुना विशारदा धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥5॥ जलान्तकेलिकारिचारुराधिकाङ्गरागिणी स्वभर्तुरन्यदुर्लभाङ्गसङ्गतांशभागिनी। स्वदत्तसुप्तसप्तसिन्धुभेदनातिकोविदा धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥6॥ जलच्युताच्युताङ्गरागलम्पटालिशालिनी विलोलराधिकाकचान्तचम्पकालिमालिनी। सदावगाहनावतीर्णभर्तृभृत्यनारदा धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥7॥ सदैव नन्दनन्दकेलिशालिक...

!! श्री गङ्गाष्टकम् !!

चित्र
!! श्री गङ्गाष्टकम् !! भगवति तव तीरे नीरमात्राशनोऽहं विगतविषयतृष्णः कृष्णमाराधयामि। सकलकलुषभङ्गे स्वर्गसोपानसङ्गे तरलतरतरङ्गे देवि गङ्गे प्रसीद॥1॥ भगवति भवलीलामौलिमाले तवाम्भः कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति। अमरनगरनारीचामरग्राहिणीनां विगतकलिकलङ्कातङ्कमङ्के लुठन्ति॥2॥ ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती स्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात्स्खलन्ती। क्षोणीपृष्ठे लुठन्ती दुरितचयचमूनिर्भरं भर्त्सयन्ती पाथोधिं पुरयन्ती सुरनगरसरित्पावनी नः पुनातु॥3॥ मज्जन्मातङ्गकुम्भच्युतमदमदिरामोदमत्तालिजालं स्नानैः सिद्धाङ्गनानां कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम्। सायंप्रातर्मुनीनां कुशकुसुमचयैश्छन्नतीरस्थनीरं पायान्नो गाङ्गमम्भः करिकलभकराक्रान्तरंहस्तरङ्गम्॥4॥ आदावादिपितामहस्य नियमव्यापारपात्रे जलं पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम्। भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते॥5॥ शैलेन्द्रादवतारिणी निजजले मज्जज्जनोत्तारिणी पारावारविहारिणी भवभयश्रेणीसमुत्सारिणी। शेषाहेरनुकारिणी हरशिरोवल्लीदलाकारिणी काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी॥6॥ ...

!! श्री कालिकाष्टकम् !!

चित्र
!! श्री कालिकाष्टकम् !! गलद्रक्तमुण्डावलीकण्ठमाला महोघोररावा सुदंष्ट्रा कराला। विवस्त्रा श्मशानालया मुक्तकेशी महाकालकामाकुला कालिकेयम्॥1॥ भुजे वामयुग्मे शिरोऽसिं दधाना वरं दक्षयुग्मेऽभयं वै तथैव। सुमध्याऽपि तुङ्गस्तनाभारनम्रा लसद्रक्तसृक्कद्वया सुस्मितास्या॥2॥ शवद्वन्द्वकर्णावतंसा सुकेशी लसत्प्रेतपाणिं प्रयुक्तैककाञ्ची। शवाकारमञ्चाधिरूढा शिवाभिश्- चतुर्दिक्षुशब्दायमानाऽभिरेजे॥3॥ विरञ्च्यादिदेवास्त्रयस्ते गुणांस्त्रीन् समाराध्य कालीं प्रधाना बभूबुः। अनादिं सुरादिं मखादिं भवादिं स्वरूपं त्वदीयं न विन्दन्ति देवाः॥4॥ जगन्मोहनीयं तु वाग्वादिनीयं सुहृत्पोषिणीशत्रुसंहारणीयम्। वचस्तम्भनीयं किमुच्चाटनीयं स्वरूपं त्वदीयं न विन्दन्ति देवाः॥5॥ इयं स्वर्गदात्री पुनः कल्पवल्ली मनोजांस्तु कामान् यथार्थं प्रकुर्यात्। तथा ते कृतार्था भवन्तीति नित्यं- स्वरूपं त्वदीयं न विन्दन्ति देवाः॥6॥ सुरापानमत्ता सुभक्तानुरक्ता लसत्पूतचित्ते सदाविर्भवत्ते। जपध्यानपूजासुधाधौतपङ्का स्वरूपं त्वदीयं न विन्दन्ति देवाः॥7॥ चिदानन्दकन्दं हसन् मन्दमन्दं शरच्चन्द्रकोटिप्रभापुञ्जबिम्बम्। मुनीनां कवीनां हृदि द्योतयन्तं स्वरूपं ...

!! श्री सूर्यमण्डलाष्टकम् !!

चित्र
!! श्री सूर्यमण्डलाष्टकम्  !!     नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे। त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चिनारायणशङ्करात्मने॥1॥ यन्मण्डलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरूपम्। दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्॥2॥ यन्मण्डलं देवगणैः सुपूजितं विप्रैः स्तुतं भावनमुक्तिकोविदम्। तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम्॥3॥ यन्मण्डलं ज्ञानघनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम्। समस्ततेजोमयदिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम्॥4॥ यन्मण्डलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम्। यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्॥5॥ यन्मण्डलं व्याधिविनाशदक्षं यदृग्यजुः सामसु संप्रगीतम्। प्रकाशितं येन च भूर्भुवः स्वः पुनातु मां तत्सवितुर्वरेण्यम्॥6॥ यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसंघाः। यद्योगिनो योगजुषां च संघाः पुनातु मां तत्सवितुर्वरेण्यम्॥7॥ यन्मण्डलं सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके। यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्॥8॥ यन्मण्डलं विश्वसृजां प्रसिद्धमुत्पत्तिरक...

!! श्री शीतलाष्टकम् !!

चित्र
!! श्री शीतलाष्टकम् !! ॥ विनियोग ॥ अस्य श्रीशीतलास्तोत्रस्य , महादेव ऋषिः , अनुष्टुप् छन्दः , शीतला देवता ,  लक्ष्मीर्बीजम् , भवानी शक्तिः , सर्वविस्फोटकनिवृत्यर्थे , जपे विनियोगः॥ !! ईश्वर उवाच !! वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बराम्। मार्जनीकलशोपेतां शूर्पालङ्कृतमस्तकाम्॥1॥ वन्देऽहं शीतलां देवीं सर्वरोगभयापहाम्। यामासाद्य निवर्तेत विस्फोटकभयं महत्॥2॥ शीतले शीतले चेति यो ब्रूयद्दाहपीडितः। विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति॥3॥ यस्त्वामुदकमध्ये तु ध्यात्वा सम्पूजयेन्नरः। विस्फोटकभयं घोरं गृहे तस्य न जायते॥4॥ शीतले ज्वरदग्धस्य पूतिगन्धयुतस्य च। प्रणष्टचक्षुषः पुंसस्त्वामाहुर्जीवनौषधम्॥5॥ शीतले तनुजान् रोगान् नृणां हरसि दुस्त्यजान्। विस्फोटकविदीर्णानां त्वमेकाऽमृतवर्षिणी॥6॥ गलगण्डग्रहा रोगा ये चान्ये दारुणा नृणाम्। त्वदनुध्यानमात्रेण शीतले यान्ति सङ्क्षयम्॥7॥ न मन्त्रो नौषधं तस्य पापरोगस्य विद्यते। त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम्॥8॥ ॥ फल श्रुति ॥ मृणालतन्तुसदृशीं नाभिहृन्मध्यसंस्थिताम्। यस्त्वां सञ्चिन्तयेद्देवि तस्य मृत्युर्न जायते॥9॥ अ...

!! श्री सूर्याष्टकम् !!

चित्र
!! श्री सूर्याष्टकम् !! आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर। दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते॥1॥ सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम्। श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम्॥2॥ लोहितं रथमारूढं सर्वलोकपितामहम्। महापापहरं देवं तं सूर्यं प्रणमाम्यहम्॥3॥ त्रैगुण्यं च महाशूरं ब्रह्माविष्णुमहेश्वरम्। महापापहरं देवं तं सूर्यं प्रणमाम्यहम्॥4॥ बृंहितं तेजःपुञ्जं च वायुमाकाशमेव च। प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम्॥5॥ बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम्। एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम्॥6॥ तं सूर्यं जगत्कर्तारं महातेजःप्रदीपनम्। महापापहरं देवं तं सूर्यं प्रणमाम्यहम्॥7॥ तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम्। महापापहरं देवं तं सूर्यं प्रणमाम्यहम्॥8॥ ॥ इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम् ॥

!! श्री लक्ष्मीनारायणाष्टकम् !!

चित्र
!! श्री लक्ष्मीनारायणाष्टकम् !! आर्तानां दुःखशमने दीक्षितं प्रभुमव्ययम्। अशेषजगदाधारं लक्ष्मीनारायणं भजे॥1॥ अपारकरुणाम्भोधिं आपद्बान्धवमच्युतम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥2॥ भक्तानां वत्सलं भक्तिगम्यं सर्वगुणाकरम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥3॥ सुहृदं सर्वभूतानां सर्वलक्षणसंयुतम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥4॥ चिदचित्सर्वजन्तूनां आधारं वरदं परम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥5॥ शङ्खचक्रधरं देवं लोकनाथं दयानिधिम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥6॥ पीताम्बरधरं विष्णुं विलसत्सूत्रशोभितम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥7॥ हस्तेन दक्षिणेन यजं अभयप्रदमक्षरम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥8॥ यः पठेत् प्रातरुत्थाय लक्ष्मीनारायणाष्टकम्। विमुक्तस्सर्वपापेभ्यः विष्णुलोकं स गच्छति॥ ॥ इति श्रीलक्ष्मीनारायणाष्टकं सम्पूर्णम् ॥

!! श्रीरामप्रेमाष्टकम् !!

चित्र
!! श्री रामप्रेमाष्टकम् !! श्यामाम्बुदाभमरविन्दविशालनेत्रं बन्धूकपुष्पसदृशाधरपाणिपादम्। सीतासहायमुदितं धृतचापबाणं रामं नमामि शिरसा रमणीयवेषम्॥1॥ पटुजलधरधीरध्वानमादाय चापं पवनदमनमेकं बाणमाकृष्य तूणात्। अभयवचनदायी सानुजः सर्वतो मे रणहतदनुजेन्द्रो रामचन्द्रः सहायः॥2॥ दशरथकुलदीपोऽमेयबाहुप्रतापो दशवदनसकोपः क्षालिताशेषपापः। कृतसुररिपुतापो नन्दितानेकभूपो विगततिमिरपङ्को रामचन्द्रः सहायः॥3॥ कुवलयदलनीलः कामितार्थप्रदो मे कृतमुनिजनरक्ष रक्षसामे कहन्ता। अपहृतदुरितोऽसौ नाममात्रेण पुंसामखिल- सुरनृपेन्द्रो रामचन्द्रः सहायः॥4॥ असुरकुलकृशानुर्मानसाम्भोजभानुः सुरनरनिकराणामग्रणीर्मे रघूणाम्। अगणितगुणसीमा नीलमेघौघधामा शमदमितमुनीन्द्रो रामचन्द्रः सहायः॥5॥ कुशिकतनययागं रक्षिता लक्ष्मणाढ्यः पवनशरनिकायक्षिप्तमारीचमायः। विदलितहरचापो मेदिनीनन्दनाया नयनकुमुदचन्द्रो रामचन्द्रः सहायः॥6॥ पवनतनयहस्तन्यस्तपादाम्बुजात्मा कलशभववचोभिः प्राप्तमाहेन्द्रधन्वा। अपरिमितशरौघैः पूर्णतूणीरधीरो लघुनिहतकपीन्द्रो रामचन्द्रः सहायः॥7॥ कनकविमलकान्त्या सीतयालिङ्गिताङ्गो मुनिमनुजवरेण्यः सर्ववागीशवन्द्यः। स्वजननिकरबन्धुर्लीलया बद्धसेतुः...

!! श्रीरामचन्द्राष्टकम् !!

चित्र
!! श्री रामचन्द्राष्टकम् !! चिदाकारो धाता परमसुखदः पावनतनु र्मुनीन्द्रैर्यो गीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता। सदा सेव्यः पूर्णो जनकतनयाङ्गः सुरगुरु रमानाथो रामो रमतु मम चित्ते तु सततम्॥1॥ मुकुन्दो गोविन्दो जनकतनयालालितपदः पदं प्राप्ता यस्याधमकुलभवा चापि शबरी। गिरातीतोऽगम्यो विमलधिषणैर्वेदवचसा रमानाथो रामो रमतु मम चित्ते तु सततम्॥2॥ धराधीशोऽधीशः सुरनरवराणां रघुपतिः किरीटी केयूरी कनककपिशः शोभितवपुः। समासीनः पीठे रविशतनिभे शान्तमनसो रमानाथो रामो रमतु मम चित्ते तु सततम्॥3॥ वरेण्यः शारण्यः कपिपतिसखश्चान्तविधुरो ललाटे काश्मीरो रुचिरगतिभङ्गः शशिमुखः। नराकारो रामो यतिपतिनुतः संसृतिहरो रमानाथो रामो रमतु मम चित्ते तु सततम्।॥4॥ विरूपाक्षः कश्यामुपदिशि यन्नाम शिवदं सहस्रं यन्नाम्नां पठति गिरिजा प्रत्युषसि वै। स्वलोके गायन्तीश्वरविधिमुखा यस्य चरितं रमानाथो रामो रमतु मम चित्ते तु सततम्॥5॥ परो धीरोऽधीरोऽसुरकुल भवश्चासुरहरः परात्मा सर्वज्ञो नरसुरगणैर्गीतसुयशाः। अहल्याशापघ्नः शरकरऋजुः कौशिकसखो रमानाथो रामो रमतु मम चित्ते तु सततम्॥6॥ हृषीकेशः शौरिर्धरणि- धरशायी मधुरिपु- रुपेन्द्रोवैकुण्ठो गजरिपुहरस्त...

!! नारायणाष्टकम् !!

चित्र
!! श्री नारायणाष्टकम् !! वात्सल्यादभयप्रदान- समयादार्तिनिर्वापणा- दौदार्यादघशोषणाद- गणितश्रेयःपदप्रापणात्। सेव्यः श्रीपतिरेक एव जगतामेतेऽभवन्साक्षिणः प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्या ध्रुवः॥1॥ प्रह्लादास्ति यदीश्वरो वद हरिः सर्वत्र मे दर्शय स्तम्भे चैवमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः। वक्षस्तस्य विदारयन्निजन- खैर्वात्सल्यमापाद- यन्नार्तत्राणपरायणः स भगवान्नारायणो मे गतिः॥2॥ श्रीरामात्र विभीषणोऽयमनघो रक्षोभयादागतः सुग्रीवानय पालयैनमधुना पौलस्त्यमेवागतम्। इत्युक्त्वाभयमस्य सर्वविदितं यो राघवो दत्तवानार्तत्राणपरायणः स भगवान्नारायणो मे गतिः॥3॥ नक्रग्रस्तपदं समुद्धतकरं ब्रह्मादयो भो सुराः पाल्यन्तामिति दीनवाक्यकरिणं देवेष्वशक्तेषु यः। मा भैषीरिति यस्य नक्रहनने चक्रायुधः श्रीधर। आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः॥4॥ भो कृष्णाच्युत भो कृपालय हरे भो पाण्डवानां सखे क्वासि क्वासि सुयोधनादपहृतां भो रक्ष मामातुराम्। इत्युक्तोऽक्षयवस्त्रसंभृततनुं योऽपालयद्द्रौपदी- मार्तत्राणपरायणः स भगवान्नारायणो मे गतिः॥5॥ यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वंसनं यन्नामामृतपूरकं च पिबतां संसा...

!! श्री दीनबन्ध्वष्टकम् !!

चित्र
!! श्री दीनबन्ध्वष्टकम् !! यस्मादिदं जगदुदेति चतुर्मुखाद्यं यस्मिन्नवस्थितमशेषमशेषमूले। यत्रोपयाति विलयं च समस्तमन्ते दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥1॥ चक्रं सहस्रकरचारु करारविन्दे गुर्वी गदा दरवरश्च विभाति यस्य। पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥2॥ येनोद्धृता वसुमती सलिले निमग्ना नग्ना च पाण्डववधूः स्थगिता दुकूलैः। संमोचितो जलचरस्य मुखाद्गजेन्द्रो। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥3॥ यस्यार्द्रदृष्टिवशतस्तु सुराः समृद्धिं कोपेक्षणेन दनुजा विलयं व्रजन्ति। भीताश्चरन्ति च यतोऽर्कयमानिलाद्या। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥4॥ गायन्ति सामकुशला यमजं मखेषु ध्यायन्ति धीरमतयो यतयो विविक्ते। पश्यन्ति योगिपुरुषाः पुरुषं शरीरे। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥5॥ आकाररूपगुणयोगविवर्जितोऽपि मदद भक्तानुकम्पननिमित्तगृहीतमूर्तिः। यः सर्वगोऽपि कृतशेषशरीरशय्यो। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥6॥ यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रवृन्दै राराध्यते भवदवानलदाहशान्त्यै। सर्वापराधमविचिन्त्य ममाखिलात्मा। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥7॥ यन्नामकीर्तनपरः श्वपचोऽपि नूनं...

!! श्री कमलापत्यष्टकम् !!

चित्र
!! श्री कमलापत्यष्टकम् !! भुजगतल्पगतं घनसुन्दरं गरुडवाहनमम्बुजलोचनम्। नलिनचक्रगदाकरमव्ययं भजत रे मनुजाः कमलापतिम्॥1॥ अलिकुलासितकोमलकुन्तलं विमलपीतदुकूलमनोहरम्। जलधिजाङ्कितवामकलेवरं भजत रे मनुजाः कमलापतिम्॥2॥ किमु जपैश्च तपोभिरुताध्वरैरपि किमुत्तमतीर्थनिषेवणैः। किमुत शास्त्रकदम्बविलोकनैर्भजत रे मनुजाः कमलापतिम्॥3॥ मनुजदेहमिमं भुवि दुर्लभं समधिगम्य सुरैरपि वाञ्छितम्। विषयलम्पटतामपहाय वै भजत रे मनुजाः कमलापतिम्॥4॥ न वनिता न सुतो न सहोदरो न हि पिता जननी न च बान्धवः। व्रजति साकमनेन जनेन वै भजत रे मनुजाः कमलापतिम्॥5॥ सकलमेव चलं सचराचरं जगदिदं सुतरां धनयौवनम्। समवलोक्य विवेकदृशा द्रुतं भजत रे मनुजाः कमलापतिम्॥6॥ विविधरोगयुतं क्षणभंगुरं परवशं नवमार्गमलाकुलम्। परिनिरीक्ष्य शरीरमिदं स्वकं भजत रे मनुजाः कमलापतिम्॥7॥ मुनिवरैरनिशं हृदि भावितं शिवविरिञ्चिमहेन्द्रनुतं सदा। मरणजन्मजराभयमोचनं भजत रे मनुजाः कमलापतिम्॥8॥ हरिपदाष्टकमेतदनुत्तमं परमहंसजनेन समीरितम्। पठति यस्तु समाहितचेतसा व्रजति विष्णुपदं स नरो ध्रुवम्॥9॥ ॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीकमलापत्यष्टकं सम्पूर्णम् ॥