!! अच्युता अष्टकम् !! , !! Achyutam Keshavam !!
!! अच्युता अष्टकम् !! अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ।। 1 ।। अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् । इंदिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं संदधे ।। 2 ।। विष्णवे जिष्णवे शंखिने चक्रिणे रुक्मिणीरागिणे जानकीजानये । वल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नमः ।। 3 ।। कृष्ण गोविन्दहे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे । अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ।। 4 ।। राक्षसक्षोभितः सीतया शोभितो दण्डकारण्यभूपुण्यताकारणः । लक्ष्मणेनान्वितो वानरैः सेवितोऽगस्त्यसम्पूजितो राघवः पातु माम् ।। 5 ।। धेनुकारिष्टकानिष्टकृदद्वेषिहा केशिहा कंसहृद्वंशिकावादकः । पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु मां सर्वदा ।। 6 ।। विद्युदुद्योतवत्प्रस्फुरद्वाससं प्राव्रडम्भोदवत्प्रोल्लसद्विग्रहम् । वन्यया मालया शोभितोरःस्थलं लोहितांगघ्रिद्वयं वारिजाक्षं भजे ।। 7 ।। कुञ्चितैः कुन्तलैर्भाजमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयोः । हारकेयूरकं कंकणप्रो...