!! श्री हरि शरणाष्टकम् !!
!! श्री हरि शरणाष्टकम् !! ध्येयं वदन्ति शिवमेव हि केचिदन्ये शक्तिं गणेशमपरे तु दिवाकरं वै। रूपैस्तु तैरपि विभासि यतस्त्वमेव तस्मात्त्वमेव शरणं मम दीनबन्धो॥1॥ नो सोदरो न जनको जननी न जाया नैवात्मजो न च कुलं विपुलं बलं वा। संदृष्यते न किल कोऽपि सहायको मे तस्मात्त्वमेव शरणं मम दीनबन्धो॥2॥ नोपासिता मदमपास्य मया महान्तस्तीर्थानि चास्तिकधिया न हि सेवितानि। देवार्चनं च विधिवन्न कृतं कदापि तस्मात्त्वमेव शरणं मम दीनबन्धो॥3॥ दुर्वासना मम सदा परिकर्षयन्ति चित्तं शरीरमपि रोगगणा दहन्ति। सञ्जीवनं च परहस्तगतं सदैव तस्मात्त्वमेव शरणं मम दीनबन्धो॥4॥ पूर्वं कृतानि दुरितानि मया तु यानि स्मृत्वाखिलानि ह्रदयं परिकम्पते मे। ख्याता च ते पतितपावनता तु यस्मात् तस्मात्त्वमेव शरणं मम दीनबन्धो॥5॥ दुःखं जराजननजं विविधाश्च रोगाः काकश्वसूकरजनिर्निरय च पातः। त्वद्विस्मॄतेः फलमिदं विततं हि लोके तस्मात्त्वमेव शरणं मम दीनबन्धो॥6॥ नीचोऽपि पापवलितोऽपि विनिन्दितोऽपि ब्रूयात्तवाहमिति यस्तु किलैकवारम्। तं यच्छसीश निजलोकमिति व्रतं ते तस्मात्त्वमेव शरणं मम दीनबन्धो॥7॥ वेदेषु धर्मवचनेषु तथागमेषु रामायणेऽपि च पुराणकदम्बके वा। सर...