संदेश

श्री कृष्णाष्टकम् लेबल वाली पोस्ट दिखाई जा रही हैं

!! अच्युता अष्टकम् !! , !! Achyutam Keshavam !!

चित्र
            !! अच्युता अष्टकम् !! अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ।। 1 ।। अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् । इंदिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं संदधे ।। 2 ।। विष्णवे जिष्णवे शंखिने चक्रिणे रुक्मिणीरागिणे जानकीजानये । वल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नमः ।। 3 ।। कृष्ण गोविन्दहे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे । अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ।। 4 ।। राक्षसक्षोभितः सीतया शोभितो दण्डकारण्यभूपुण्यताकारणः । लक्ष्मणेनान्वितो वानरैः सेवितोऽगस्त्यसम्पूजितो राघवः पातु माम् ।। 5 ।। धेनुकारिष्टकानिष्टकृदद्वेषिहा केशिहा कंसहृद्वंशिकावादकः । पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु मां सर्वदा ।। 6 ।। विद्युदुद्योतवत्प्रस्फुरद्वाससं प्राव्रडम्भोदवत्प्रोल्लसद्विग्रहम् । वन्यया मालया शोभितोरःस्थलं लोहितांगघ्रिद्वयं वारिजाक्षं भजे ।। 7 ।। कुञ्चितैः कुन्तलैर्भाजमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयोः । हारकेयूरकं कंकणप्रो...

!! मधुराष्टकम् !!

चित्र
      !! मधुराष्टकम् !! अधरं मधुरं वदनं मधुरं , नयनं मधुरं हसितं मधुरम्। हृदयं मधुरं गमनं मधुरं , मधुराधिपतेरखिलं मधुरम्॥1॥ वचनं मधुरं चरितं मधुरं , वसनं मधुरं वलितं मधुरम्। चलितं मधुरं भ्रमितं मधुरं , मधुराधिपतेरखिलं मधुरम्॥2॥ वेणुर्मधुरो रेणुर्मधुरः , पाणिर्मधुरः पादौ मधुरौ। नृत्यं मधुरं सख्यं मधुरं , मधुराधिपतेरखिलं मधुरम्॥3॥ गीतं मधुरं पीतं मधुरं , भुक्तं मधुरं सुप्तं मधुरम्। रूपं मधुरं तिलकं मधुरं , मधुराधिपतेरखिलं मधुरम्॥4॥ करणं मधुरं तरणं मधुरं , हरणं मधुरं रमणं मधुरम्। वमितं मधुरं शमितं मधुरं , मधुराधिपतेरखिलं मधुरम्॥5॥ गुञ्जा मधुरा माला मधुरा , यमुना मधुरा वीची मधुरा। सलिलं मधुरं कमलं मधुरं , मधुराधिपतेरखिलं मधुरम्॥6॥ गोपी मधुरा लीला मधुरा , युक्तं मधुरं मुक्तं मधुरम्। दृष्टं मधुरं शिष्टं मधुरं , मधुराधिपतेरखिलं मधुरम्॥7॥ गोपा मधुरा गावो मधुरा , यष्टिर्मधुरा सृष्टिर्मधुरा। दलितं मधुरं फलितं मधुरं , मधुराधिपतेरखिलं मधुरम्॥8॥ ॥ इति श्रीमद्वल्लभाचार्यकृतं मधुराष्टकं सम्पूर्णम् ॥

!! श्री कृष्णाष्टकम् !!

चित्र
!! श्री कृष्णाष्टकम् !! वसुदेव सुतं देवं कंस चाणूर मर्दनम्। देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्॥1॥ अतसी पुष्प सङ्काशम् हार नूपुर शोभितम्। रत्न कङ्कण केयूरं कृष्णं वन्दे जगद्गुरुम्॥2॥ कुटिलालक संयुक्तं पूर्णचन्द्र निभाननम्। विलसत् कुण्डलधरं कृष्णं वन्दे जगद्गुरुम्॥3॥ मन्दार गन्ध संयुक्तं चारुहासं चतुर्भुजम्। बर्हि पिञ्छाव चूडाङ्गं कृष्णं वन्दे जगद्गुरुम्॥4॥ उत्फुल्ल पद्मपत्राक्षं नील जीमूत सन्निभम्। यादवानां शिरोरत्नं कृष्णं वन्दे जगद्गुरुम्॥5॥ रुक्मिणी केलि संयुक्तं पीताम्बर सुशोभितम्। अवाप्त तुलसी गन्धं कृष्णं वन्दे जगद्गुरुम्॥6॥ गोपिकानां कुचद्वन्द्व कुङ्कुमाङ्कित वक्षसम्। श्रीनिकेतं महेष्वासं कृष्णं वन्दे जगद्गुरुम्॥7॥ श्रीवत्साङ्कं महोरस्कं वनमाला विराजितम्। शङ्खचक्रधरं देवं कृष्णं वन्दे जगद्गुरुम्॥8॥ कृष्णाष्टक मिदं पुण्यं प्रातरुत्थाय यः पठेत्। कोटिजन्म कृतं पापं स्मरणेन विनश्यति॥ ॥ इति श्री कृष्णाष्टकम् सम्पूर्णम् ॥

!! श्रीगोविन्दाष्टकम् !!

चित्र
    !! श्री गोविन्दाष्टकम् !! सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं गोष्ठप्राङ्गणरिङ्गणलोलमनायासं परमायासम्। मायाकल्पितनानाकारमनाकारं भुवनाकारं क्ष्मामा नाथमनाथं प्रणमत गोविन्दं परमानन्दम्॥1॥ मृत्स्नामत्सीहेति यशोदाताडनशैशवसंत्रासं व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम्। लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकं लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम्॥2॥ त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं कैवल्यं नवनीताहारमनाहारं भुवनाहारम्। वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासं शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम्॥3॥ गोपालं भुलीलाविग्रहगोपालं कुलगोपालं गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम्। गोभिर्निगदितगोविन्दस्फुटनामानं बहुनामानं गोपीगोचरदूरं प्रणमत गोविन्दं परमानन्दम्॥4॥ गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभं शश्वद्गोखुरनिर्धूतोद्धतधूलीधूसरसौभाग्यम्। श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावं चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम्॥5॥ स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढं व्यादित्सन्तीरथ दिग्वस्त्रा ह्युपदातुमुपाकर्षन्तम्। निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तःस्थं ...

!! श्रीनन्दकुमाराष्टकम् !!

चित्र
!! श्रीनन्दकुमाराष्टकम् !! सुन्दरगोपालम् उरवनमालं नयनविशालं दुःखहरं | वृन्दावनचन्द्रमानन्दकन्दं परमानन्दं धरणिधर वल्लभघनश्यामं पूर्णकामं अत्यभिरामं प्रीतिकरं। भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम्॥1॥ सुन्दरवारिजवदनं निर्जितमदनं आनन्दसदनं मुकुटधरं। गुञ्जाकृतिहारं विपिनविहारं परमोदारं चीरहर वल्लभपटपीतं कृतउपवीतं करनवनीतं विबुधवरं। भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम्॥2॥ शोभितमुखधूलं यमुनाकूलं निपटअतूलं सुखदतरं। मुखमण्डितरेणुं चारितधेनुं वादितवेणुं मधुरसुर वल्लभमतिविमलं शुभपदकमलं नखरुचिअमलं तिमिरहरं। भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम्॥3॥ शिरमुकुटसुदेशं कुञ्चितकेशं नटवरवेशं कामवरं। मायाकृतमनुजं हलधरअनुजं प्रतिहतदनुजं भारहर वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरं। भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम्॥4॥ इन्दीवरभासं प्रकटसुरासं कुसुमविकासं वंशिधरं। हृतमन्मथमानं रूपनिधानं कृतकलगानं चित्तहर वल्लभमृदुहासं कुञ्जनिवासं विविधविलासं केलिकरं। भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम्॥5॥ अतिपरप्रवीणं पालितदीनं भक्ताधीनं कर्मकरं। मोहनमतिध...