!! अच्युता अष्टकम् !!
अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ।। 1 ।।
अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् ।
इंदिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं संदधे ।। 2 ।।
विष्णवे जिष्णवे शंखिने चक्रिणे रुक्मिणीरागिणे जानकीजानये ।
वल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नमः ।। 3 ।।
कृष्ण गोविन्दहे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ।। 4 ।।
राक्षसक्षोभितः सीतया शोभितो दण्डकारण्यभूपुण्यताकारणः ।
लक्ष्मणेनान्वितो वानरैः सेवितोऽगस्त्यसम्पूजितो राघवः पातु माम् ।। 5 ।।
धेनुकारिष्टकानिष्टकृदद्वेषिहा केशिहा कंसहृद्वंशिकावादकः ।
पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु मां सर्वदा ।। 6 ।।
विद्युदुद्योतवत्प्रस्फुरद्वाससं प्राव्रडम्भोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोरःस्थलं लोहितांगघ्रिद्वयं वारिजाक्षं भजे ।। 7 ।।
कुञ्चितैः कुन्तलैर्भाजमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं कंकणप्रोज्ज्वलं किंकिणीमञ्जुलं श्यामलं तं भजे ।। 8 ।।
अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्प्रहम् ।
वृत्ततः सुन्दरं कर्तृविश्वम्भरस्तस्य वश्यो हरिर्जायते सत्वरम् ।। 9 ।।

।। इति अच्युता अष्टकम सम्पूर्णम् ।।