!! मधुराष्टकम् !!
!! मधुराष्टकम् !! अधरं मधुरं वदनं मधुरं , नयनं मधुरं हसितं मधुरम्। हृदयं मधुरं गमनं मधुरं , मधुराधिपतेरखिलं मधुरम्॥1॥ वचनं मधुरं चरितं मधुरं , वसनं मधुरं वलितं मधुरम्। चलितं मधुरं भ्रमितं मधुरं , मधुराधिपतेरखिलं मधुरम्॥2॥ वेणुर्मधुरो रेणुर्मधुरः , पाणिर्मधुरः पादौ मधुरौ। नृत्यं मधुरं सख्यं मधुरं , मधुराधिपतेरखिलं मधुरम्॥3॥ गीतं मधुरं पीतं मधुरं , भुक्तं मधुरं सुप्तं मधुरम्। रूपं मधुरं तिलकं मधुरं , मधुराधिपतेरखिलं मधुरम्॥4॥ करणं मधुरं तरणं मधुरं , हरणं मधुरं रमणं मधुरम्। वमितं मधुरं शमितं मधुरं , मधुराधिपतेरखिलं मधुरम्॥5॥ गुञ्जा मधुरा माला मधुरा , यमुना मधुरा वीची मधुरा। सलिलं मधुरं कमलं मधुरं , मधुराधिपतेरखिलं मधुरम्॥6॥ गोपी मधुरा लीला मधुरा , युक्तं मधुरं मुक्तं मधुरम्। दृष्टं मधुरं शिष्टं मधुरं , मधुराधिपतेरखिलं मधुरम्॥7॥ गोपा मधुरा गावो मधुरा , यष्टिर्मधुरा सृष्टिर्मधुरा। दलितं मधुरं फलितं मधुरं , मधुराधिपतेरखिलं मधुरम्॥8॥ ॥ इति श्रीमद्वल्लभाचार्यकृतं मधुराष्टकं सम्पूर्णम् ॥