संदेश

श्री सूर्य अष्टकम् लेबल वाली पोस्ट दिखाई जा रही हैं

!! श्री सूर्यमण्डलाष्टकम् !!

चित्र
!! श्री सूर्यमण्डलाष्टकम्  !!     नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे। त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चिनारायणशङ्करात्मने॥1॥ यन्मण्डलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरूपम्। दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्॥2॥ यन्मण्डलं देवगणैः सुपूजितं विप्रैः स्तुतं भावनमुक्तिकोविदम्। तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम्॥3॥ यन्मण्डलं ज्ञानघनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम्। समस्ततेजोमयदिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम्॥4॥ यन्मण्डलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम्। यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्॥5॥ यन्मण्डलं व्याधिविनाशदक्षं यदृग्यजुः सामसु संप्रगीतम्। प्रकाशितं येन च भूर्भुवः स्वः पुनातु मां तत्सवितुर्वरेण्यम्॥6॥ यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसंघाः। यद्योगिनो योगजुषां च संघाः पुनातु मां तत्सवितुर्वरेण्यम्॥7॥ यन्मण्डलं सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके। यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्॥8॥ यन्मण्डलं विश्वसृजां प्रसिद्धमुत्पत्तिरक...

!! श्री सूर्याष्टकम् !!

चित्र
!! श्री सूर्याष्टकम् !! आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर। दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते॥1॥ सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम्। श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम्॥2॥ लोहितं रथमारूढं सर्वलोकपितामहम्। महापापहरं देवं तं सूर्यं प्रणमाम्यहम्॥3॥ त्रैगुण्यं च महाशूरं ब्रह्माविष्णुमहेश्वरम्। महापापहरं देवं तं सूर्यं प्रणमाम्यहम्॥4॥ बृंहितं तेजःपुञ्जं च वायुमाकाशमेव च। प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम्॥5॥ बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम्। एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम्॥6॥ तं सूर्यं जगत्कर्तारं महातेजःप्रदीपनम्। महापापहरं देवं तं सूर्यं प्रणमाम्यहम्॥7॥ तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम्। महापापहरं देवं तं सूर्यं प्रणमाम्यहम्॥8॥ ॥ इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम् ॥