!! श्री दीनबन्ध्वष्टकम् !!
!! श्री दीनबन्ध्वष्टकम् !! यस्मादिदं जगदुदेति चतुर्मुखाद्यं यस्मिन्नवस्थितमशेषमशेषमूले। यत्रोपयाति विलयं च समस्तमन्ते दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥1॥ चक्रं सहस्रकरचारु करारविन्दे गुर्वी गदा दरवरश्च विभाति यस्य। पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥2॥ येनोद्धृता वसुमती सलिले निमग्ना नग्ना च पाण्डववधूः स्थगिता दुकूलैः। संमोचितो जलचरस्य मुखाद्गजेन्द्रो। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥3॥ यस्यार्द्रदृष्टिवशतस्तु सुराः समृद्धिं कोपेक्षणेन दनुजा विलयं व्रजन्ति। भीताश्चरन्ति च यतोऽर्कयमानिलाद्या। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥4॥ गायन्ति सामकुशला यमजं मखेषु ध्यायन्ति धीरमतयो यतयो विविक्ते। पश्यन्ति योगिपुरुषाः पुरुषं शरीरे। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥5॥ आकाररूपगुणयोगविवर्जितोऽपि मदद भक्तानुकम्पननिमित्तगृहीतमूर्तिः। यः सर्वगोऽपि कृतशेषशरीरशय्यो। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥6॥ यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रवृन्दै राराध्यते भवदवानलदाहशान्त्यै। सर्वापराधमविचिन्त्य ममाखिलात्मा। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥7॥ यन्नामकीर्तनपरः श्वपचोऽपि नूनं...