संदेश

श्री विष्णु अष्टकम् लेबल वाली पोस्ट दिखाई जा रही हैं

!! श्रीनृसिंहाष्टकम् !!

चित्र
!!  श्री नृसिंहाष्टकम्  !! सुन्दरजामातृमुनेः प्रपद्ये चरणाम्बुजम्। संसारार्णवसंमग्नजन्तुसंतारपोतकम्॥ श्रीमदकलङ्क परिपूर्ण! शशिकोटि- श्रीधर! मनोहर! सटापटल कान्त!। पालय कृपालय! भवाम्बुधि-निमग्नं दैत्यवरकाल! नरसिंह! नरसिंह!॥1॥ पादकमलावनत पातकि-जनानां पातकदवानल! पतत्रिवर-केतो!। भावन! परायण! भवार्तिहरया मां पाहि कृपयैव नरसिंह! नरसिंह!॥2॥ तुङ्गनख-पङ्क्ति-दलितासुर-वरासृक् पङ्क-नवकुङ्कुम-विपङ्किल-महोरः। पण्डितनिधान-कमलालय नमस्ते पङ्कजनिषण्ण! नरसिंह! नरसिंह!॥3॥ मौलेषु विभूषणमिवामर वराणां योगिहृदयेषु च शिरस्सु निगमानाम्। राजदरविन्द-रुचिरं पदयुगं ते देहि मम मूर्ध्नि नरसिंह! नरसिंह!॥4॥ वारिजविलोचन! मदन्तिम-दशायां क्लेश-विवशीकृत-समस्त-करणायाम्। एहि रमया सह शरण्य! विहगानां नाथमधिरुह्य नरसिंह! नरसिंह!॥5॥ हाटक-किरीट-वरहार-वनमाला धाररशना-मकरकुण्डल-मणीन्द्रैः। भूषितमशेष-निलयं तव वपुर्मे चेतसि चकास्तु नरसिंह! नरसिंह!॥6॥ इन्दु रवि पावक विलोचन! रमायाः मन्दिर! महाभुज!-लसद्वर-रथाङ्ग!। सुन्दर! चिराय रमतां त्वयि मनो मे नन्दित सुरेश! नरसिंह! नरसिंह!॥7॥ माधव! मुकुन्द! मधुसूदन! मुरारे! वामन! नृसिंह! शरणं...

!! श्री लक्ष्मीनारायणाष्टकम् !!

चित्र
!! श्री लक्ष्मीनारायणाष्टकम् !! आर्तानां दुःखशमने दीक्षितं प्रभुमव्ययम्। अशेषजगदाधारं लक्ष्मीनारायणं भजे॥1॥ अपारकरुणाम्भोधिं आपद्बान्धवमच्युतम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥2॥ भक्तानां वत्सलं भक्तिगम्यं सर्वगुणाकरम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥3॥ सुहृदं सर्वभूतानां सर्वलक्षणसंयुतम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥4॥ चिदचित्सर्वजन्तूनां आधारं वरदं परम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥5॥ शङ्खचक्रधरं देवं लोकनाथं दयानिधिम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥6॥ पीताम्बरधरं विष्णुं विलसत्सूत्रशोभितम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥7॥ हस्तेन दक्षिणेन यजं अभयप्रदमक्षरम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥8॥ यः पठेत् प्रातरुत्थाय लक्ष्मीनारायणाष्टकम्। विमुक्तस्सर्वपापेभ्यः विष्णुलोकं स गच्छति॥ ॥ इति श्रीलक्ष्मीनारायणाष्टकं सम्पूर्णम् ॥

!! नारायणाष्टकम् !!

चित्र
!! श्री नारायणाष्टकम् !! वात्सल्यादभयप्रदान- समयादार्तिनिर्वापणा- दौदार्यादघशोषणाद- गणितश्रेयःपदप्रापणात्। सेव्यः श्रीपतिरेक एव जगतामेतेऽभवन्साक्षिणः प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्या ध्रुवः॥1॥ प्रह्लादास्ति यदीश्वरो वद हरिः सर्वत्र मे दर्शय स्तम्भे चैवमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः। वक्षस्तस्य विदारयन्निजन- खैर्वात्सल्यमापाद- यन्नार्तत्राणपरायणः स भगवान्नारायणो मे गतिः॥2॥ श्रीरामात्र विभीषणोऽयमनघो रक्षोभयादागतः सुग्रीवानय पालयैनमधुना पौलस्त्यमेवागतम्। इत्युक्त्वाभयमस्य सर्वविदितं यो राघवो दत्तवानार्तत्राणपरायणः स भगवान्नारायणो मे गतिः॥3॥ नक्रग्रस्तपदं समुद्धतकरं ब्रह्मादयो भो सुराः पाल्यन्तामिति दीनवाक्यकरिणं देवेष्वशक्तेषु यः। मा भैषीरिति यस्य नक्रहनने चक्रायुधः श्रीधर। आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः॥4॥ भो कृष्णाच्युत भो कृपालय हरे भो पाण्डवानां सखे क्वासि क्वासि सुयोधनादपहृतां भो रक्ष मामातुराम्। इत्युक्तोऽक्षयवस्त्रसंभृततनुं योऽपालयद्द्रौपदी- मार्तत्राणपरायणः स भगवान्नारायणो मे गतिः॥5॥ यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वंसनं यन्नामामृतपूरकं च पिबतां संसा...

!! श्री दीनबन्ध्वष्टकम् !!

चित्र
!! श्री दीनबन्ध्वष्टकम् !! यस्मादिदं जगदुदेति चतुर्मुखाद्यं यस्मिन्नवस्थितमशेषमशेषमूले। यत्रोपयाति विलयं च समस्तमन्ते दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥1॥ चक्रं सहस्रकरचारु करारविन्दे गुर्वी गदा दरवरश्च विभाति यस्य। पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥2॥ येनोद्धृता वसुमती सलिले निमग्ना नग्ना च पाण्डववधूः स्थगिता दुकूलैः। संमोचितो जलचरस्य मुखाद्गजेन्द्रो। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥3॥ यस्यार्द्रदृष्टिवशतस्तु सुराः समृद्धिं कोपेक्षणेन दनुजा विलयं व्रजन्ति। भीताश्चरन्ति च यतोऽर्कयमानिलाद्या। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥4॥ गायन्ति सामकुशला यमजं मखेषु ध्यायन्ति धीरमतयो यतयो विविक्ते। पश्यन्ति योगिपुरुषाः पुरुषं शरीरे। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥5॥ आकाररूपगुणयोगविवर्जितोऽपि मदद भक्तानुकम्पननिमित्तगृहीतमूर्तिः। यः सर्वगोऽपि कृतशेषशरीरशय्यो। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥6॥ यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रवृन्दै राराध्यते भवदवानलदाहशान्त्यै। सर्वापराधमविचिन्त्य ममाखिलात्मा। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥7॥ यन्नामकीर्तनपरः श्वपचोऽपि नूनं...

!! श्री कमलापत्यष्टकम् !!

चित्र
!! श्री कमलापत्यष्टकम् !! भुजगतल्पगतं घनसुन्दरं गरुडवाहनमम्बुजलोचनम्। नलिनचक्रगदाकरमव्ययं भजत रे मनुजाः कमलापतिम्॥1॥ अलिकुलासितकोमलकुन्तलं विमलपीतदुकूलमनोहरम्। जलधिजाङ्कितवामकलेवरं भजत रे मनुजाः कमलापतिम्॥2॥ किमु जपैश्च तपोभिरुताध्वरैरपि किमुत्तमतीर्थनिषेवणैः। किमुत शास्त्रकदम्बविलोकनैर्भजत रे मनुजाः कमलापतिम्॥3॥ मनुजदेहमिमं भुवि दुर्लभं समधिगम्य सुरैरपि वाञ्छितम्। विषयलम्पटतामपहाय वै भजत रे मनुजाः कमलापतिम्॥4॥ न वनिता न सुतो न सहोदरो न हि पिता जननी न च बान्धवः। व्रजति साकमनेन जनेन वै भजत रे मनुजाः कमलापतिम्॥5॥ सकलमेव चलं सचराचरं जगदिदं सुतरां धनयौवनम्। समवलोक्य विवेकदृशा द्रुतं भजत रे मनुजाः कमलापतिम्॥6॥ विविधरोगयुतं क्षणभंगुरं परवशं नवमार्गमलाकुलम्। परिनिरीक्ष्य शरीरमिदं स्वकं भजत रे मनुजाः कमलापतिम्॥7॥ मुनिवरैरनिशं हृदि भावितं शिवविरिञ्चिमहेन्द्रनुतं सदा। मरणजन्मजराभयमोचनं भजत रे मनुजाः कमलापतिम्॥8॥ हरिपदाष्टकमेतदनुत्तमं परमहंसजनेन समीरितम्। पठति यस्तु समाहितचेतसा व्रजति विष्णुपदं स नरो ध्रुवम्॥9॥ ॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीकमलापत्यष्टकं सम्पूर्णम् ॥

!! श्री हरि शरणाष्टकम् !!

चित्र
!! श्री हरि शरणाष्टकम् !! ध्येयं वदन्ति शिवमेव हि केचिदन्ये शक्तिं गणेशमपरे तु दिवाकरं वै। रूपैस्तु तैरपि विभासि यतस्त्वमेव तस्मात्त्वमेव शरणं मम दीनबन्धो॥1॥ नो सोदरो न जनको जननी न जाया नैवात्मजो न च कुलं विपुलं बलं वा। संदृष्यते न किल कोऽपि सहायको मे तस्मात्त्वमेव शरणं मम दीनबन्धो॥2॥ नोपासिता मदमपास्य मया महान्तस्तीर्थानि चास्तिकधिया न हि सेवितानि। देवार्चनं च विधिवन्न कृतं कदापि तस्मात्त्वमेव शरणं मम दीनबन्धो॥3॥ दुर्वासना मम सदा परिकर्षयन्ति चित्तं शरीरमपि रोगगणा दहन्ति। सञ्जीवनं च परहस्तगतं सदैव तस्मात्त्वमेव शरणं मम दीनबन्धो॥4॥ पूर्वं कृतानि दुरितानि मया तु यानि स्मृत्वाखिलानि ह्रदयं परिकम्पते मे। ख्याता च ते पतितपावनता तु यस्मात् तस्मात्त्वमेव शरणं मम दीनबन्धो॥5॥ दुःखं जराजननजं विविधाश्च रोगाः काकश्वसूकरजनिर्निरय च पातः। त्वद्विस्मॄतेः फलमिदं विततं हि लोके तस्मात्त्वमेव शरणं मम दीनबन्धो॥6॥ नीचोऽपि पापवलितोऽपि विनिन्दितोऽपि ब्रूयात्तवाहमिति यस्तु किलैकवारम्। तं यच्छसीश निजलोकमिति व्रतं ते तस्मात्त्वमेव शरणं मम दीनबन्धो॥7॥ वेदेषु धर्मवचनेषु तथागमेषु रामायणेऽपि च पुराणकदम्बके वा। सर...

!! श्री विष्णुनामाष्टकम् !!

चित्र
!! श्री विष्णुनामाष्टकम् !! ॥ श्री गणेशाय नमः ॥ अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम्। हंसं नारायणं चैवमेतन्नामाष्टकं पठेत्॥1॥ त्रिसन्ध्यं यः पठेन्नित्यं दारिद्र्यं तस्य नश्यति। शत्रुसैन्यं क्षयं याति दुःस्वप्नः सुखदो भवेत्॥2॥ गङ्गायां मरणं चैव दृढा भक्तिस्तु केशवे। ब्रह्मविद्याप्रबोधश्च तस्मान्नित्यं पठेन्नरः॥3॥ ॥ इति श्रीवामनपुराणे विष्णोर्नामाष्टकस्तोत्रं सम्पूर्णम् ॥