!! श्री लक्ष्मीनारायणाष्टकम् !!



!! श्री लक्ष्मीनारायणाष्टकम् !!










आर्तानां दुःखशमने दीक्षितं प्रभुमव्ययम्।

अशेषजगदाधारं लक्ष्मीनारायणं भजे॥1॥


अपारकरुणाम्भोधिं आपद्बान्धवमच्युतम्।

अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥2॥


भक्तानां वत्सलं भक्तिगम्यं सर्वगुणाकरम्।

अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥3॥


सुहृदं सर्वभूतानां सर्वलक्षणसंयुतम्।

अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥4॥


चिदचित्सर्वजन्तूनां आधारं वरदं परम्।

अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥5॥


शङ्खचक्रधरं देवं लोकनाथं दयानिधिम्।

अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥6॥


पीताम्बरधरं विष्णुं विलसत्सूत्रशोभितम्।

अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥7॥


हस्तेन दक्षिणेन यजं अभयप्रदमक्षरम्।

अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥8॥


यः पठेत् प्रातरुत्थाय लक्ष्मीनारायणाष्टकम्।

विमुक्तस्सर्वपापेभ्यः विष्णुलोकं स गच्छति॥


॥ इति श्रीलक्ष्मीनारायणाष्टकं सम्पूर्णम् ॥

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Swastik kyu bnate hai स्वास्तिक क्यों बनाते है

श्री गणेश जी की आरती , ganesh ji ki aarti , गणेश जी की आरतीयां

om kya hai ॐ क्या है