!! श्रीरामचन्द्राष्टकम् !!
!! श्री रामचन्द्राष्टकम् !! चिदाकारो धाता परमसुखदः पावनतनु र्मुनीन्द्रैर्यो गीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता। सदा सेव्यः पूर्णो जनकतनयाङ्गः सुरगुरु रमानाथो रामो रमतु मम चित्ते तु सततम्॥1॥ मुकुन्दो गोविन्दो जनकतनयालालितपदः पदं प्राप्ता यस्याधमकुलभवा चापि शबरी। गिरातीतोऽगम्यो विमलधिषणैर्वेदवचसा रमानाथो रामो रमतु मम चित्ते तु सततम्॥2॥ धराधीशोऽधीशः सुरनरवराणां रघुपतिः किरीटी केयूरी कनककपिशः शोभितवपुः। समासीनः पीठे रविशतनिभे शान्तमनसो रमानाथो रामो रमतु मम चित्ते तु सततम्॥3॥ वरेण्यः शारण्यः कपिपतिसखश्चान्तविधुरो ललाटे काश्मीरो रुचिरगतिभङ्गः शशिमुखः। नराकारो रामो यतिपतिनुतः संसृतिहरो रमानाथो रामो रमतु मम चित्ते तु सततम्।॥4॥ विरूपाक्षः कश्यामुपदिशि यन्नाम शिवदं सहस्रं यन्नाम्नां पठति गिरिजा प्रत्युषसि वै। स्वलोके गायन्तीश्वरविधिमुखा यस्य चरितं रमानाथो रामो रमतु मम चित्ते तु सततम्॥5॥ परो धीरोऽधीरोऽसुरकुल भवश्चासुरहरः परात्मा सर्वज्ञो नरसुरगणैर्गीतसुयशाः। अहल्याशापघ्नः शरकरऋजुः कौशिकसखो रमानाथो रामो रमतु मम चित्ते तु सततम्॥6॥ हृषीकेशः शौरिर्धरणि- धरशायी मधुरिपु- रुपेन्द्रोवैकुण्ठो गजरिपुहरस्त...