संदेश

सर्व देवी अष्टकम् लेबल वाली पोस्ट दिखाई जा रही हैं

!! श्री महालक्ष्म्यष्टकम् !!

चित्र
!! श्री महालक्ष्म्यष्टकम् !! नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते। शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते॥1॥ नमस्ते गरुडारूढे कोलासुरभयङ्करि। सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते॥2॥ सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि। सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते॥3॥ सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि। मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते॥4॥ आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि। योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते॥5॥ स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे। महापापहरे देवि महालक्ष्मि नमोऽस्तुते॥6॥ पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि। परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते॥7॥ श्वेताम्बरधरे देवि नानालङ्कारभूषिते। जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते॥8॥ महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः। सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा॥9॥ एककाले पठेन्नित्यं महापापविनाशनम्। द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः॥10॥ त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम्। महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा॥11॥ ॥ इति इन्द्रकृतं महालक्ष्म्यष्टकं सम्पूर्णम् ॥

!! श्री भवान्यष्टकम् !!

चित्र
!! श्री भवान्यष्टकम् !! न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता। न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥1॥ भवाब्धावपारे महादुःखभीरुः पपात प्रकामी प्रलोभी प्रमत्तः। कुसंसारपाशप्रबद्धः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥2॥ न जानामि दानं न च ध्यानयोगं न जानामि तन्त्रं न च स्तोत्रमन्त्रम्। न जानामि पूजां न च न्यासयोगम् गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥3॥ न जानामि पुण्यं न जानामि तीर्थं न जानामि मुक्ति लयं वा कदाचित्। न जानामि भक्ति व्रतं वापि मातर्गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥4॥ कुकर्मी कुसङ्गी कुबुद्धिः कुदासः कुलाचारहीनः कदाचारलीनः। कुदृष्टिः कुवाक्यप्रबन्धः सदाहम् गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥5॥ प्रजेशं रमेशं महेशं सुरेशं दिनेशं निशीथेश्वरं वा कदाचित्। न जानामि चान्यत् सदाहं शरण्ये गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥6॥ विवादे विषादे प्रमादे प्रवासे जले चानले पर्वते शत्रुमध्ये। अरण्ये शरण्ये सदा मां प्रपाहि गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥7॥ अनाथो दरिद्रो जरारोगयुक्तो महाक्षीणदीनः सदा जाड्यवक्त्रः। विपत्तौ प्रविष्टः प्रण...

!! श्री सरस्वती अष्टकम् !!

चित्र
!! श्री सरस्वती अष्टकम् !! ॥ शतानीक उवाच ॥ महामते महाप्राज्ञ सर्वशास्त्रविशारद। अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम॥1॥ मरणे यज्जोपेज्जाप्यं यं च भावमनुस्मरन्। परं पदमवाप्नोति तन्मे ब्रूहि महामुने॥2॥ ॥ शौनक उवाच ॥ इदमेव महाराज पृष्टवांस्ते पितामहः। भीष्मं धर्मविदां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः॥3॥ ॥ युधिष्ठिर उवाच ॥ पितामह महाप्राज्ञ सर्वशास्त्रविशारदः। बृहस्पतिस्तुता देवी वागीशेन महात्मना। आत्मायं दर्शयामासं सूर्य कोटिसमप्रभम्॥4॥ ॥ सरस्वत्युवाच ॥ वरं वृणीष्व भद्रं ते यत्ते मनसि विद्यते। ॥ बृहस्पतिरूवाच ॥ यदि मे वरदा देवि दिव्यज्ञानं प्रयच्छ नः॥5॥ ॥ देव्युवाच ॥ हन्त ते निर्मलज्ञानं कुमतिध्वंसकारणम्। स्तोत्रणानेन यो भक्तया मां स्तुवन्ति मनीषिण॥6॥ ॥ बृहस्पतिरूवाच ॥ लभते परमं ज्ञानं यतपरैरपि दुर्लभम्। प्राप्नोति पुरुषो नित्यं महामाया प्रसादतः॥7॥ ॥ सरस्वत्युवाच ॥ त्रिसन्ध्यं प्रयतो नित्यं पठेदष्टकमुत्तमम्। तस्य कण्ठे सदा वासं करिष्यामि न संशयः॥8॥ ॥ इति श्रीपद्मपुराणे सरस्वती अष्टकम् सम्पूर्णम् ॥

!! श्री दुर्गाष्टकम् !!

चित्र
!! श्री दुर्गाष्टकम् !! कात्यायनि महामाये खड्गबाणधनुर्धरे। खड्गधारिणि चण्डि दुर्गादेवि नमोऽस्तु ते॥1॥ वसुदेवसुते कालि वासुदेवसहोदरि। वसुन्धराश्रिये नन्दे दुर्गादेवि नमोऽस्तु ते॥2॥ योगनिद्रे महानिद्रे योगमाये महेश्वरि। योगसिद्धिकरी शुद्धे दुर्गादेवि नमोऽस्तु ते॥3॥ शङ्खचक्रगदापाणे शार्ङ्गज्यायतबाहवे। पीताम्बरधरे धन्ये दुर्गादेवि नमोऽस्तु ते॥4॥ ऋग्यजुस्सामाथर्वाण- श्चतुस्सामन्तलोकिनि। ब्रह्मस्वरूपिणि ब्राह्मि दुर्गादेवि नमोऽस्तु ते॥5॥ वृष्णीनां कुलसम्भूते विष्णुनाथसहोदरि। वृष्णिरूपधरे धन्ये दुर्गादेवि नमोऽस्तु ते॥6॥ सर्वज्ञे सर्वगे शर्वे सर्वेशे सर्वसाक्षिणि। सर्वामृतजटाभारे दुर्गादेवि नमोऽस्तु ते॥7॥ अष्टबाहु महासत्त्वे अष्टमी नवमि प्रिये। अट्टहासप्रिये भद्रे दुर्गादेवि नमोऽस्तु ते॥8॥ दुर्गाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः। सर्वकाममवाप्नोति दुर्गालोकं स गच्छति॥9॥ ॥ इति श्रीदुर्गाष्टकं सम्पूर्णम् ॥

!! श्री यमुनाष्टकम् !!

चित्र
!! श्री यमुनाष्टकम् !! मुरारिकायकालिमाललामवारिधारिणी तृणीकृतत्रिविष्टपा त्रिलोकशोकहारिणी। मनोऽनुकूलकूलकुञ्जपुञ्जधूतदुर्मदा धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥1॥ मलापहारिवारिपूरभूरिमण्डितामृता भृशं प्रपातकप्रवञ्चनातिपण्डितानिशम्। सुनन्दनन्दनाङ्ग-सङ्गरागरञ्जिता हिता धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥2॥ लसत्तरङ्गसङ्गधूतभूतजातपातका नवीनमाधुरीधुरीणभक्तिजातचातका। तटान्तवासदासहंससंसृता हि कामदा धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥3॥ विहाररासखेदभेदधीरतीरमारुता गता गिरामगोचरे यदीयनीरचारुता। प्रवाहसाहचर्यपूतमेदिनीनदीनदा धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥4॥ तरङ्गसङ्गसैकताञ्चितान्तरा सदासिता शरन्निशाकरांशुमञ्जुमञ्जरीसभाजिता। भवार्चनाय चारुणाम्बुनाधुना विशारदा धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥5॥ जलान्तकेलिकारिचारुराधिकाङ्गरागिणी स्वभर्तुरन्यदुर्लभाङ्गसङ्गतांशभागिनी। स्वदत्तसुप्तसप्तसिन्धुभेदनातिकोविदा धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥6॥ जलच्युताच्युताङ्गरागलम्पटालिशालिनी विलोलराधिकाकचान्तचम्पकालिमालिनी। सदावगाहनावतीर्णभर्तृभृत्यनारदा धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥7॥ सदैव नन्दनन्दकेलिशालिक...

!! श्री गङ्गाष्टकम् !!

चित्र
!! श्री गङ्गाष्टकम् !! भगवति तव तीरे नीरमात्राशनोऽहं विगतविषयतृष्णः कृष्णमाराधयामि। सकलकलुषभङ्गे स्वर्गसोपानसङ्गे तरलतरतरङ्गे देवि गङ्गे प्रसीद॥1॥ भगवति भवलीलामौलिमाले तवाम्भः कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति। अमरनगरनारीचामरग्राहिणीनां विगतकलिकलङ्कातङ्कमङ्के लुठन्ति॥2॥ ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती स्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात्स्खलन्ती। क्षोणीपृष्ठे लुठन्ती दुरितचयचमूनिर्भरं भर्त्सयन्ती पाथोधिं पुरयन्ती सुरनगरसरित्पावनी नः पुनातु॥3॥ मज्जन्मातङ्गकुम्भच्युतमदमदिरामोदमत्तालिजालं स्नानैः सिद्धाङ्गनानां कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम्। सायंप्रातर्मुनीनां कुशकुसुमचयैश्छन्नतीरस्थनीरं पायान्नो गाङ्गमम्भः करिकलभकराक्रान्तरंहस्तरङ्गम्॥4॥ आदावादिपितामहस्य नियमव्यापारपात्रे जलं पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम्। भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते॥5॥ शैलेन्द्रादवतारिणी निजजले मज्जज्जनोत्तारिणी पारावारविहारिणी भवभयश्रेणीसमुत्सारिणी। शेषाहेरनुकारिणी हरशिरोवल्लीदलाकारिणी काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी॥6॥ ...

!! श्री कालिकाष्टकम् !!

चित्र
!! श्री कालिकाष्टकम् !! गलद्रक्तमुण्डावलीकण्ठमाला महोघोररावा सुदंष्ट्रा कराला। विवस्त्रा श्मशानालया मुक्तकेशी महाकालकामाकुला कालिकेयम्॥1॥ भुजे वामयुग्मे शिरोऽसिं दधाना वरं दक्षयुग्मेऽभयं वै तथैव। सुमध्याऽपि तुङ्गस्तनाभारनम्रा लसद्रक्तसृक्कद्वया सुस्मितास्या॥2॥ शवद्वन्द्वकर्णावतंसा सुकेशी लसत्प्रेतपाणिं प्रयुक्तैककाञ्ची। शवाकारमञ्चाधिरूढा शिवाभिश्- चतुर्दिक्षुशब्दायमानाऽभिरेजे॥3॥ विरञ्च्यादिदेवास्त्रयस्ते गुणांस्त्रीन् समाराध्य कालीं प्रधाना बभूबुः। अनादिं सुरादिं मखादिं भवादिं स्वरूपं त्वदीयं न विन्दन्ति देवाः॥4॥ जगन्मोहनीयं तु वाग्वादिनीयं सुहृत्पोषिणीशत्रुसंहारणीयम्। वचस्तम्भनीयं किमुच्चाटनीयं स्वरूपं त्वदीयं न विन्दन्ति देवाः॥5॥ इयं स्वर्गदात्री पुनः कल्पवल्ली मनोजांस्तु कामान् यथार्थं प्रकुर्यात्। तथा ते कृतार्था भवन्तीति नित्यं- स्वरूपं त्वदीयं न विन्दन्ति देवाः॥6॥ सुरापानमत्ता सुभक्तानुरक्ता लसत्पूतचित्ते सदाविर्भवत्ते। जपध्यानपूजासुधाधौतपङ्का स्वरूपं त्वदीयं न विन्दन्ति देवाः॥7॥ चिदानन्दकन्दं हसन् मन्दमन्दं शरच्चन्द्रकोटिप्रभापुञ्जबिम्बम्। मुनीनां कवीनां हृदि द्योतयन्तं स्वरूपं ...

!! श्री शीतलाष्टकम् !!

चित्र
!! श्री शीतलाष्टकम् !! ॥ विनियोग ॥ अस्य श्रीशीतलास्तोत्रस्य , महादेव ऋषिः , अनुष्टुप् छन्दः , शीतला देवता ,  लक्ष्मीर्बीजम् , भवानी शक्तिः , सर्वविस्फोटकनिवृत्यर्थे , जपे विनियोगः॥ !! ईश्वर उवाच !! वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बराम्। मार्जनीकलशोपेतां शूर्पालङ्कृतमस्तकाम्॥1॥ वन्देऽहं शीतलां देवीं सर्वरोगभयापहाम्। यामासाद्य निवर्तेत विस्फोटकभयं महत्॥2॥ शीतले शीतले चेति यो ब्रूयद्दाहपीडितः। विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति॥3॥ यस्त्वामुदकमध्ये तु ध्यात्वा सम्पूजयेन्नरः। विस्फोटकभयं घोरं गृहे तस्य न जायते॥4॥ शीतले ज्वरदग्धस्य पूतिगन्धयुतस्य च। प्रणष्टचक्षुषः पुंसस्त्वामाहुर्जीवनौषधम्॥5॥ शीतले तनुजान् रोगान् नृणां हरसि दुस्त्यजान्। विस्फोटकविदीर्णानां त्वमेकाऽमृतवर्षिणी॥6॥ गलगण्डग्रहा रोगा ये चान्ये दारुणा नृणाम्। त्वदनुध्यानमात्रेण शीतले यान्ति सङ्क्षयम्॥7॥ न मन्त्रो नौषधं तस्य पापरोगस्य विद्यते। त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम्॥8॥ ॥ फल श्रुति ॥ मृणालतन्तुसदृशीं नाभिहृन्मध्यसंस्थिताम्। यस्त्वां सञ्चिन्तयेद्देवि तस्य मृत्युर्न जायते॥9॥ अ...

!! मां अन्नपूर्णा अष्टकम् !! , !! Annapurna ashtakam !!

चित्र
!! मां अन्नपूर्णा अष्टकम् !! नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी । प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥१॥ नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी मुक्ताहारविलम्बमानविलसद्वक्षोजकुम्भान्तरी । काश्मीरागरुवासिताङ्गरुचिरे काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥२॥ योगानन्दकरी रिपुक्षयकरी धर्मार्थनिष्ठाकरी चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी । सर्वैश्वर्यसमस्तवाञ्छितकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥३॥ कैलासाचलकन्दरालयकरी गौरी उमा शङ्करी कौमारी निगमार्थगोचरकरी ओङ्कारबीजाक्षरी । मोक्षद्वारकपाटपाटनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥४॥ दृश्यादृश्यविभूतिवाहनकरी ब्रह्माण्डभाण्डोदरी लीलानाटकसूत्रभेदनकरी विज्ञानदीपाङ्कुरी । श्रीविश्वेशमनःप्रसादनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥५॥ उर्वीसर्वजनेश्वरी भगवती मातान्नपूर्णेश्वरी वेणीनीलसमानकुन्तलहरी नित्यान्नदानेश्वरी । सर्वानन्दकरी सदा शु...

॥ श्री नर्मदा अष्टकम ॥ shree narmd ashtkam

चित्र
 ॥ श्री नर्मदा अष्टकम ॥ सबिंदु सिन्धु सुस्खल तरंग भंग रंजितम द्विषत्सु पाप जात जात कारि वारि संयुतम कृतान्त दूत काल भुत भीति हारि वर्मदे त्वदीय पाद पंकजम नमामि देवी नर्मदे ॥1॥ त्वदम्बु लीन दीन मीन दिव्य सम्प्रदायकम कलौ मलौघ भारहारि सर्वतीर्थ नायकं सुमस्त्य कच्छ नक्र चक्र चक्रवाक् शर्मदे त्वदीय पाद पंकजम नमामि देवी नर्मदे ॥2॥ महागभीर नीर पुर पापधुत भूतलं ध्वनत समस्त पातकारि दरितापदाचलम जगल्ल्ये महाभये मृकुंडूसूनु हर्म्यदे त्वदीय पाद पंकजम नमामि देवी नर्मदे ॥3॥ गतं तदैव में भयं त्वदम्बु वीक्षितम यदा मृकुंडूसूनु शौनका सुरारी सेवी सर्वदा पुनर्भवाब्धि जन्मजं भवाब्धि दुःख वर्मदे त्वदीय पाद पंकजम नमामि देवी नर्मदे ॥4॥ अलक्षलक्ष किन्न रामरासुरादी पूजितं सुलक्ष नीर तीर धीर पक्षीलक्ष कुजितम वशिष्ठशिष्ट पिप्पलाद कर्दमादि शर्मदे त्वदीय पाद पंकजम नमामि देवी नर्मदे ॥5॥ सनत्कुमार नाचिकेत कश्यपात्रि षटपदै धृतम स्वकीय मानषेशु नारदादि षटपदै: रविन्दु रन्ति देवदेव राजकर्म शर्मदे त्वदीय पाद पंकजम नमामि देवी नर्मदे ॥6॥ अलक्षलक्ष लक्षपाप लक्ष सार सायुधं ततस्तु जीवजंतु तंतु भुक्तिमुक्ति दायकं विरन्ची विष्...