संदेश

श्री राम अष्टकम् लेबल वाली पोस्ट दिखाई जा रही हैं

!! श्रीरामप्रेमाष्टकम् !!

चित्र
!! श्री रामप्रेमाष्टकम् !! श्यामाम्बुदाभमरविन्दविशालनेत्रं बन्धूकपुष्पसदृशाधरपाणिपादम्। सीतासहायमुदितं धृतचापबाणं रामं नमामि शिरसा रमणीयवेषम्॥1॥ पटुजलधरधीरध्वानमादाय चापं पवनदमनमेकं बाणमाकृष्य तूणात्। अभयवचनदायी सानुजः सर्वतो मे रणहतदनुजेन्द्रो रामचन्द्रः सहायः॥2॥ दशरथकुलदीपोऽमेयबाहुप्रतापो दशवदनसकोपः क्षालिताशेषपापः। कृतसुररिपुतापो नन्दितानेकभूपो विगततिमिरपङ्को रामचन्द्रः सहायः॥3॥ कुवलयदलनीलः कामितार्थप्रदो मे कृतमुनिजनरक्ष रक्षसामे कहन्ता। अपहृतदुरितोऽसौ नाममात्रेण पुंसामखिल- सुरनृपेन्द्रो रामचन्द्रः सहायः॥4॥ असुरकुलकृशानुर्मानसाम्भोजभानुः सुरनरनिकराणामग्रणीर्मे रघूणाम्। अगणितगुणसीमा नीलमेघौघधामा शमदमितमुनीन्द्रो रामचन्द्रः सहायः॥5॥ कुशिकतनययागं रक्षिता लक्ष्मणाढ्यः पवनशरनिकायक्षिप्तमारीचमायः। विदलितहरचापो मेदिनीनन्दनाया नयनकुमुदचन्द्रो रामचन्द्रः सहायः॥6॥ पवनतनयहस्तन्यस्तपादाम्बुजात्मा कलशभववचोभिः प्राप्तमाहेन्द्रधन्वा। अपरिमितशरौघैः पूर्णतूणीरधीरो लघुनिहतकपीन्द्रो रामचन्द्रः सहायः॥7॥ कनकविमलकान्त्या सीतयालिङ्गिताङ्गो मुनिमनुजवरेण्यः सर्ववागीशवन्द्यः। स्वजननिकरबन्धुर्लीलया बद्धसेतुः...

!! श्रीरामचन्द्राष्टकम् !!

चित्र
!! श्री रामचन्द्राष्टकम् !! चिदाकारो धाता परमसुखदः पावनतनु र्मुनीन्द्रैर्यो गीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता। सदा सेव्यः पूर्णो जनकतनयाङ्गः सुरगुरु रमानाथो रामो रमतु मम चित्ते तु सततम्॥1॥ मुकुन्दो गोविन्दो जनकतनयालालितपदः पदं प्राप्ता यस्याधमकुलभवा चापि शबरी। गिरातीतोऽगम्यो विमलधिषणैर्वेदवचसा रमानाथो रामो रमतु मम चित्ते तु सततम्॥2॥ धराधीशोऽधीशः सुरनरवराणां रघुपतिः किरीटी केयूरी कनककपिशः शोभितवपुः। समासीनः पीठे रविशतनिभे शान्तमनसो रमानाथो रामो रमतु मम चित्ते तु सततम्॥3॥ वरेण्यः शारण्यः कपिपतिसखश्चान्तविधुरो ललाटे काश्मीरो रुचिरगतिभङ्गः शशिमुखः। नराकारो रामो यतिपतिनुतः संसृतिहरो रमानाथो रामो रमतु मम चित्ते तु सततम्।॥4॥ विरूपाक्षः कश्यामुपदिशि यन्नाम शिवदं सहस्रं यन्नाम्नां पठति गिरिजा प्रत्युषसि वै। स्वलोके गायन्तीश्वरविधिमुखा यस्य चरितं रमानाथो रामो रमतु मम चित्ते तु सततम्॥5॥ परो धीरोऽधीरोऽसुरकुल भवश्चासुरहरः परात्मा सर्वज्ञो नरसुरगणैर्गीतसुयशाः। अहल्याशापघ्नः शरकरऋजुः कौशिकसखो रमानाथो रामो रमतु मम चित्ते तु सततम्॥6॥ हृषीकेशः शौरिर्धरणि- धरशायी मधुरिपु- रुपेन्द्रोवैकुण्ठो गजरिपुहरस्त...

श्री राम अष्टकम् , Shri Ram Ashtakam

चित्र
!! श्री राम अष्टकम् !! कृतार्तदेववन्दनं दिनेशवंशनन्दनम् । सुशोभिभालचन्दनं नमामि राममीश्वरम् ।। 1 ।। मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम् । महाधनुर्विदारकं नमामि राममीश्वरम् ।। 2 ।। स्वतातवाक्यकारिणं तपोवने विहारिणम् । करे सुचापधारिणं नमामि राममीश्वरम् ।। 3 ।। कुरंगमुक्तसायकं जटायुमोक्षदायकम् । प्रविद्धकीशनायकं नमामि राममीश्वरम् ।। 4 ।। प्लवंगसंगसम्मतिं निबद्धनिम्नगापतिम् । दशास्यवंशसंगक्षतिं नमामि राममीश्वरम् ।। 5 ।। विदीनदेवहर्षणं कपीप्सितार्थवर्षणम् । स्वबन्धुशोककर्षणं नमामि राममीश्वरम् ।। 6 ।। गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम् । कृतास्तमोहलक्षणं नमामि राममीश्वरम् ।। 7 ।। ह्रताखिलाचलाभरं स्वधामनीतनागरम् । जगत्तमोदिवाकरं नमामि राममीश्वरम् ।। 8 ।। इदं समाहितात्मना नरो रघूत्तमाष्टकम् । पठन्निरन्तरं भयं भवोद्भवं न विन्दते ।। 9 ।। ।। इति श्री राम अष्टकम सम्पूर्णम् ।।