!! श्री राम अष्टकम् !!
कृतार्तदेववन्दनं दिनेशवंशनन्दनम् ।
सुशोभिभालचन्दनं नमामि राममीश्वरम् ।। 1 ।।
मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम् ।
महाधनुर्विदारकं नमामि राममीश्वरम् ।। 2 ।।
स्वतातवाक्यकारिणं तपोवने विहारिणम् ।
करे सुचापधारिणं नमामि राममीश्वरम् ।। 3 ।।
कुरंगमुक्तसायकं जटायुमोक्षदायकम् ।
प्रविद्धकीशनायकं नमामि राममीश्वरम् ।। 4 ।।
प्लवंगसंगसम्मतिं निबद्धनिम्नगापतिम् ।
दशास्यवंशसंगक्षतिं नमामि राममीश्वरम् ।। 5 ।।
विदीनदेवहर्षणं कपीप्सितार्थवर्षणम् ।
स्वबन्धुशोककर्षणं नमामि राममीश्वरम् ।। 6 ।।
गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम् ।
कृतास्तमोहलक्षणं नमामि राममीश्वरम् ।। 7 ।।
ह्रताखिलाचलाभरं स्वधामनीतनागरम् ।
जगत्तमोदिवाकरं नमामि राममीश्वरम् ।। 8 ।।
इदं समाहितात्मना नरो रघूत्तमाष्टकम् ।
पठन्निरन्तरं भयं भवोद्भवं न विन्दते ।। 9 ।।
।। इति श्री राम अष्टकम सम्पूर्णम् ।।