!! नारायणाष्टकम् !!
!! श्री नारायणाष्टकम् !! वात्सल्यादभयप्रदान- समयादार्तिनिर्वापणा- दौदार्यादघशोषणाद- गणितश्रेयःपदप्रापणात्। सेव्यः श्रीपतिरेक एव जगतामेतेऽभवन्साक्षिणः प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्या ध्रुवः॥1॥ प्रह्लादास्ति यदीश्वरो वद हरिः सर्वत्र मे दर्शय स्तम्भे चैवमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः। वक्षस्तस्य विदारयन्निजन- खैर्वात्सल्यमापाद- यन्नार्तत्राणपरायणः स भगवान्नारायणो मे गतिः॥2॥ श्रीरामात्र विभीषणोऽयमनघो रक्षोभयादागतः सुग्रीवानय पालयैनमधुना पौलस्त्यमेवागतम्। इत्युक्त्वाभयमस्य सर्वविदितं यो राघवो दत्तवानार्तत्राणपरायणः स भगवान्नारायणो मे गतिः॥3॥ नक्रग्रस्तपदं समुद्धतकरं ब्रह्मादयो भो सुराः पाल्यन्तामिति दीनवाक्यकरिणं देवेष्वशक्तेषु यः। मा भैषीरिति यस्य नक्रहनने चक्रायुधः श्रीधर। आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः॥4॥ भो कृष्णाच्युत भो कृपालय हरे भो पाण्डवानां सखे क्वासि क्वासि सुयोधनादपहृतां भो रक्ष मामातुराम्। इत्युक्तोऽक्षयवस्त्रसंभृततनुं योऽपालयद्द्रौपदी- मार्तत्राणपरायणः स भगवान्नारायणो मे गतिः॥5॥ यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वंसनं यन्नामामृतपूरकं च पिबतां संसा...