!! श्री नारायणाष्टकम् !!
वात्सल्यादभयप्रदान-
समयादार्तिनिर्वापणा-
दौदार्यादघशोषणाद-
गणितश्रेयःपदप्रापणात्।
सेव्यः श्रीपतिरेक एव
जगतामेतेऽभवन्साक्षिणः
प्रह्लादश्च विभीषणश्च
करिराट् पाञ्चाल्यहल्या ध्रुवः॥1॥
प्रह्लादास्ति यदीश्वरो वद
हरिः सर्वत्र मे दर्शय
स्तम्भे चैवमिति
ब्रुवन्तमसुरं तत्राविरासीद्धरिः।
वक्षस्तस्य विदारयन्निजन-
खैर्वात्सल्यमापाद-
यन्नार्तत्राणपरायणः स
भगवान्नारायणो मे गतिः॥2॥
श्रीरामात्र विभीषणोऽयमनघो
रक्षोभयादागतः
सुग्रीवानय पालयैनमधुना
पौलस्त्यमेवागतम्।
इत्युक्त्वाभयमस्य
सर्वविदितं यो राघवो
दत्तवानार्तत्राणपरायणः स
भगवान्नारायणो मे गतिः॥3॥
नक्रग्रस्तपदं समुद्धतकरं
ब्रह्मादयो भो सुराः
पाल्यन्तामिति दीनवाक्यकरिणं
देवेष्वशक्तेषु यः।
मा भैषीरिति यस्य
नक्रहनने चक्रायुधः श्रीधर।
आर्तत्राणपरायणः स
भगवान्नारायणो मे गतिः॥4॥
भो कृष्णाच्युत भो कृपालय
हरे भो पाण्डवानां सखे
क्वासि क्वासि सुयोधनादपहृतां
भो रक्ष मामातुराम्।
इत्युक्तोऽक्षयवस्त्रसंभृततनुं
योऽपालयद्द्रौपदी-
मार्तत्राणपरायणः स
भगवान्नारायणो मे गतिः॥5॥
यत्पादाब्जनखोदकं त्रिजगतां
पापौघविध्वंसनं
यन्नामामृतपूरकं च
पिबतां संसारसन्तारकम्।
पाषाणोऽपि यदङ्घ्रिपद्मरजसा
शापान्मुनेर्मोचित।
आर्तत्राणपरायणः स
भगवान्नारायणो मे गतिः॥6॥
पित्रा भ्रातरमुत्तमासनगतं
चौत्तानपादिध्रुवो दृष्ट्वा
तत्सममारुरुक्षुरधृतो
मात्रावमानं गतः।
यं गत्वा शरणं यदाप
तपसा हेमाद्रिसिंहासन-
मार्तत्राणपरायणः स
भगवान्नारायणो मे गतिः॥7॥
आर्ता विषण्णाः शिथिलाश्च भीता
घोरेषु च व्याधिषु वर्तमानाः।
सङ्कीर्त्य नारायणशब्दमात्रं
विमुक्तदुःखाः सुखिनो भवन्ति॥8॥
॥ इति श्रीकूरेशस्वामिविरचितं श्रीनारायणाष्टकं सम्पूर्णम् ॥
समयादार्तिनिर्वापणा-
दौदार्यादघशोषणाद-
गणितश्रेयःपदप्रापणात्।
सेव्यः श्रीपतिरेक एव
जगतामेतेऽभवन्साक्षिणः
प्रह्लादश्च विभीषणश्च
करिराट् पाञ्चाल्यहल्या ध्रुवः॥1॥
प्रह्लादास्ति यदीश्वरो वद
हरिः सर्वत्र मे दर्शय
स्तम्भे चैवमिति
ब्रुवन्तमसुरं तत्राविरासीद्धरिः।
वक्षस्तस्य विदारयन्निजन-
खैर्वात्सल्यमापाद-
यन्नार्तत्राणपरायणः स
भगवान्नारायणो मे गतिः॥2॥
श्रीरामात्र विभीषणोऽयमनघो
रक्षोभयादागतः
सुग्रीवानय पालयैनमधुना
पौलस्त्यमेवागतम्।
इत्युक्त्वाभयमस्य
सर्वविदितं यो राघवो
दत्तवानार्तत्राणपरायणः स
भगवान्नारायणो मे गतिः॥3॥
नक्रग्रस्तपदं समुद्धतकरं
ब्रह्मादयो भो सुराः
पाल्यन्तामिति दीनवाक्यकरिणं
देवेष्वशक्तेषु यः।
मा भैषीरिति यस्य
नक्रहनने चक्रायुधः श्रीधर।
आर्तत्राणपरायणः स
भगवान्नारायणो मे गतिः॥4॥
भो कृष्णाच्युत भो कृपालय
हरे भो पाण्डवानां सखे
क्वासि क्वासि सुयोधनादपहृतां
भो रक्ष मामातुराम्।
इत्युक्तोऽक्षयवस्त्रसंभृततनुं
योऽपालयद्द्रौपदी-
मार्तत्राणपरायणः स
भगवान्नारायणो मे गतिः॥5॥
यत्पादाब्जनखोदकं त्रिजगतां
पापौघविध्वंसनं
यन्नामामृतपूरकं च
पिबतां संसारसन्तारकम्।
पाषाणोऽपि यदङ्घ्रिपद्मरजसा
शापान्मुनेर्मोचित।
आर्तत्राणपरायणः स
भगवान्नारायणो मे गतिः॥6॥
पित्रा भ्रातरमुत्तमासनगतं
चौत्तानपादिध्रुवो दृष्ट्वा
तत्सममारुरुक्षुरधृतो
मात्रावमानं गतः।
यं गत्वा शरणं यदाप
तपसा हेमाद्रिसिंहासन-
मार्तत्राणपरायणः स
भगवान्नारायणो मे गतिः॥7॥
आर्ता विषण्णाः शिथिलाश्च भीता
घोरेषु च व्याधिषु वर्तमानाः।
सङ्कीर्त्य नारायणशब्दमात्रं
विमुक्तदुःखाः सुखिनो भवन्ति॥8॥
॥ इति श्रीकूरेशस्वामिविरचितं श्रीनारायणाष्टकं सम्पूर्णम् ॥