संदेश

श्री गणेश अष्टकम् लेबल वाली पोस्ट दिखाई जा रही हैं

!! श्रीगणेशाष्टकम् !! , !!

चित्र
 !! श्रीगणेशाष्टकम् !!  अजं निर्मलं निर्गुणं ज्ञानरूपं      निराकारसंसारसारं परेशम् । जगन्मङ्गलं विश्ववन्द्यं पवित्रं      प्रभुं सिद्धिदं तं गणेशं नमामि ॥ १॥ प्रसन्नं सदा ब्रह्मरूपं तुरीयं      सदैकाश्रयं प्राणिनामेकमात्रम् । परं नित्यमानन्दकन्दं निरीहं      प्रभुं सिद्धिदं तं गणेशं नमामि ॥ २॥ गुरुं ज्ञानिनां योगिनां तत्त्वरूपं      तथा प्राणिनां विघ्ननाशं गणेशम् । सदा मङ्गलं पार्वतीपुत्रमेकं      प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ३॥ सदूर्वादलं कुङ्कुमं रक्तपुष्पं      तथा चन्दनं सुन्दरं रक्तवस्त्रम् । सदा धारकं ज्ञानमूर्तिं ह्यखण्डं      प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ४॥ सुसौम्यं निजं निर्विकल्पं वरेण्यं      सुज्ञानं सुखं सत्स्वरूपं सुगम्यम् । सुसिद्धं मुनीशं महेशस्य पुत्रं      प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ५॥ सदा ध्यायमाना गणेशञ्च देवाः      तथा प्रार्थयन्तश्च वेदाः गणेशम् । गणेशाश्रये सन्ति जीवाः समस्ताः ...

!! श्री गणेशाष्टकम् !! , !!

चित्र
!! श्री गणेशाष्टकम् !! सर्वे उचुः यतोऽनन्तशक्तेरनन्ताश्च जीवा यतो निर्गुणादप्रमेया गुणास्ते। यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः॥1॥ यतश्चाविरासीज्जगत्सर्वमेतत्तथाऽब्जासनो विश्वगो विश्वगोप्ता। तथेन्द्रादयो देवसङ्घा मनुष्याः सदा तं गणेशं नमामो भजामः॥2॥ यतो वह्निभानू भवो भूर्जलं च यतः सागराश्चन्द्रमा व्योम वायुः। यतः स्थावरा जङ्गमा वृक्षसङ्घा सदा तं गणेशं नमामो भजामः॥3॥ यतो दानवाः किन्नरा यक्षसङ्घा यतश्चारणा वारणाः श्वापदाश्च। यतः पक्षिकीटा यतो वीरूधश्च सदा तं गणेशं नमामो भजामः॥4॥ यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यतः सम्पदो भक्तसन्तोषिकाः स्युः। यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः॥5 यतः पुत्रसम्पद्यतो वाञ्छितार्थो यतोऽभक्तविघ्नास्तथाऽनेकरूपाः। यतः शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजामः॥6॥ यतोऽनन्तशक्तिः स शेषो बभूव धराधारणेऽनेकरूपे च शक्तः। यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः॥7॥ यतो वेदवाचो विकुण्ठा मनोभिः सदा नेति नेतीति यत्ता गृणन्ति। परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः॥8॥ श्रीगणेश उवाच पुनरूचे गणाधीशः स्तोत्रम...