संदेश

श्री शिव अष्टकम् लेबल वाली पोस्ट दिखाई जा रही हैं

!! शिवाष्टकम् !! , !!

चित्र
   !! शिवाष्टकम् !! तस्मै नमः परमकारणकारणाय दीप्तोज्ज्वलज्ज्वलितपिङ्गललोचनाय। नागेन्द्रहारकृतकुण्डलभूषणाय ब्रह्मेन्द्रविष्णुवरदाय नमः शिवाय॥1॥ श्रीमत्प्रसन्नशशिपन्नगभूषणाय शैलेन्द्रजावदनचुम्बितलोचनाय। कैलासमन्दरमहेन्द्रनिकेतनाय लोकत्रयार्तिहरणाय नमः शिवाय॥2॥ पद्मावदातमणिकुण्डलगोवृषाय कृष्णागरुप्रचुरचन्दनचर्चिताय। भस्मानुषक्तविकचोत्पलमल्लिकाय नीलाब्जकण्ठसदृशाय नमः शिवाय॥3॥ लम्बत्सपिङ्गलजटामुकुटोत्कटाय दंष्ट्राकरालविकटोत्कटभैरवाय। व्याघ्राजिनाम्बरधराय मनोहराय त्रैलोक्यनाथनमिताय नमः शिवाय॥4॥ दक्षप्रजापतिमहामखनाशनाय क्षिप्रं महात्रिपुरदानवघातनाय। ब्रह्मोर्जितोर्ध्वगकरोटिनिकृन्तनाय योगाय योगनमिताय नमः शिवाय॥5॥ संसारसृष्टिघटनापरिवर्तनाय रक्षः पिशाचगणसिद्धसमाकुलाय। सिद्धोरगग्रहगणेन्द्रनिषेविताय शार्दूलचर्मवसनाय नमः शिवाय॥6॥ भस्माङ्गरागकृतरूपमनोहराय सौम्यावदातवनमाश्रितमाश्रिताय। गौरीकटाक्षनयनार्धनिरीक्षणाय गोक्षीरधारधवलाय नमः शिवाय॥7॥ आदित्यसोमवरुणानिलसेविताय यज्ञाग्निहोत्रवरधूमनिकेतनाय। ऋक्सामवेदमुनिभिः स्तुतिसंयुताय गोपाय गोपनमिताय नमः शिवाय॥8॥ शिवाष्टकमिदं पुण्यं यः पठेत् शिवसन्निध...

!! श्री शिवाष्टकम् !!

चित्र
!! श्री शिवाष्टकम् !! प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथ नाथं सदानन्द भाजाम्। भवद्भव्य भूतेश्वरं भूतनाथं, शिवं शङ्करं शम्भु मीशानमीडे॥1॥ गले रुण्डमालं तनौ सर्पजालं महाकाल कालं गणेशादि पालम्। जटाजूट गङ्गोत्तरङ्गै र्विशालं, शिवं शङ्करं शम्भु मीशानमीडे॥2॥ मुदामाकरं मण्डनं मण्डयन्तं महा मण्डलं भस्म भूषाधरं तम्। अनादिं ह्यपारं महा मोहमारं, शिवं शङ्करं शम्भु मीशानमीडे॥3॥ वटाधो निवासं महाट्टाट्टहासं महापाप नाशं सदा सुप्रकाशम्। गिरीशं गणेशं सुरेशं महेशं, शिवं शङ्करं शम्भु मीशानमीडे॥4॥ गिरीन्द्रात्मजा सङ्गृहीतार्धदेहं गिरौ संस्थितं सर्वदापन्न गेहम्। परब्रह्म ब्रह्मादिभिर्-वन्द्यमानं, शिवं शङ्करं शम्भु मीशानमीडे॥5॥ कपालं त्रिशूलं कराभ्यां दधानं पदाम्भोज नम्राय कामं ददानम्। बलीवर्धमानं सुराणां प्रधानं, शिवं शङ्करं शम्भु मीशानमीडे॥6॥ शरच्चन्द्र गात्रं गणानन्दपात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम्। अपर्णा कलत्रं सदा सच्चरित्रं, शिवं शङ्करं शम्भु मीशानमीडे॥7॥ हरं सर्पहारं चिता भूविहारं भवं वेदसारं सदा निर्विकारं। श्मशाने वसन्तं मनोजं दहन्तं, शिवं शङ्करं शम्भु मीशानमीडे॥8॥ स्वयं यः प्रभाते न...

!! श्रीरुद्राष्टकम् !!

चित्र
!! श्री रुद्राष्टकम् !! नमामीशमीशाननिर्वाणरूपं  विभुं व्यापकं ब्रह्मवेदस्वरूपम्। निजं निर्गुणं निर्विकल्पं निरीहं   चिदाकाशमाकाशवासं भजेऽहम्॥1॥ निराकारमोङ्कारमूलं तुरीयं गिराज्ञानगोतीतमीशं गिरीशम्। करालं महाकालकालं कृपालं गुणागारसंसारपारं नतोऽहम्॥2॥ तुषाराद्रिसङ्काशगौरं गभीरं मनोभूतकोटिप्रभाश्रीशरीरम्। स्फुरन्मौलिकल्लोलिनी चारुगङ्गा लसद्भालबालेन्दुकण्ठे भुजङ्गा॥3॥ चलत्कुण्डलं भ्रूसुनेत्रं विशालं प्रसन्नाननं नीलकण्ठं दयालम्। मृगाधीशचर्माम्बरं मुण्डमालं   प्रियं शङ्करं सर्वनाथं भजामि॥4॥ प्रचण्डं प्रकृष्टं प्रगल्भं परेशम खण्डमजं भानुकोटिप्रकाशम्। त्रयःशूलनिर्मूलनं शूलपाणिं भजेऽहं भवानीपतिं भावगम्यम्॥5॥ कलातीतकल्याणकल्पान्तकारी सदा सज्जनानन्ददाता पुरारी। चिदानन्दसन्दोहमोहापहारी प्रसीद प्रसीद प्रभो मन्मथारी॥6॥ न यावद् उमानाथ पादारविन्दं भजन्तीह लोके परे वा नराणाम्। न तावत्सुखं शान्तिसन्तापनाशं प्रसीद प्रभो सर्वभूताधिवासम्॥7॥ न जानामि योगं जपं नैव पूजां नतोऽहं सदा सर्वदा शम्भु तुभ्यम्। जराजन्मदुःखौघतातप्यमानं प्रभो पाहि आपन्नमामीश शम्भो॥8॥ रुद्राष्टकमिदं प्रोक्तं विप्रेण हरतोषय...

!! श्री गौरीशाष्टकम !!

चित्र
!! श्री गौरीशाष्टकम !! भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते। जलभवदुस्तरजलधिसुतरणं ध्येयं चित्ते शिवहरचरणम्। अन्योपायं न हि न हि सत्यं गेयं शङ्कर शङ्कर नित्यम्। भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते॥1॥ दारापत्यं क्षेत्रं वित्तं देहं गेहं सर्वमनित्यम्। इति परिभावय सर्वमसारं गर्भविकृत्या स्वप्नविचारम्। भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते॥2॥ मलवैचित्ये पुनरावृत्तिः पुनरपि जननीजठरोत्पत्तिः। पुनरप्याशाकुलितं जठरं किं नहि मुञ्चसि कथयेश्चित्तम्। भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते॥3॥ मायाकल्पितमैन्द्रं जालं न हि तत्सत्यं दृष्टिविकारम्। ज्ञाते तत्त्वे सर्वमसारं मा कुरु मा कुरु विषयविचारम्। भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते॥4॥ रज्जौ सर्पभ्रमणा- रोपस्तद्वद्ब्रह्मणि जगदारोपः। मिथ्यामायामोहविकारं मनसि विचारय बारम्बारम्। भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते॥5॥ अध्वरकोटीगङ्गागमनं कुरुते योगं चेन्द्रियदमनम्। ज्ञानविहीनः सर्वमतेन न भवति मुक्तो जन्मशतेन। भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते॥6॥ सोऽहं हंसो ब्रह्मैवाहं शुद्धानन्दस्तत्त्वपरोऽहम्। अद्वैतोऽहं सङ्गविहीने चेन्द्रिय आत्मनि निखिले लीने...

!! श्री विश्वनाथाष्टकम् !!

चित्र
!! श्री विश्वनाथाष्टकम् !! गङ्गातरङ्गरमणीयजटाकलापं गौरीनिरन्तरविभूषितवामभागम् नारायणप्रियमनङ्गमदापहारं वाराणसीपुरपतिं भज विश्वनाथम्॥1॥ वाचामगोचरमनेकगुणस्वरूपं वागीशविष्णुसुरसेवितपादपीठम्। वामेन विग्रहवरेण कलत्रवन्तं वाराणसीपुरपतिं भज विश्वनाथम्॥2॥ भूताधिपं भुजगभूषणभूषिताङ्गं व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम्। पाशाङ्कुशाभयवरप्रदशूलपाणिं वाराणसीपुरपतिं भज विश्वनाथम्॥3॥ शीतांशुशोभितकिरीटविराजमानं भालेक्षणानलविशोषितपञ्चबाणम्। नागाधिपारचितभासुरकर्णपूरं वाराणसीपुरपतिं भज विश्वनाथम्॥4॥ पञ्चाननं दुरितमत्तमतङ्गजानां नागान्तकं दनुजपुङ्गवपन्नगानाम्। दावानलं मरणशोकजराटवीनां वाराणसीपुरपतिं भज विश्वनाथम्॥5॥ तेजोमयं सगुणनिर्गुणमद्वितीय- मानन्दकन्दमपराजितमप्रमेयम्। नागात्मकं सकलनिष्कलमात्मरूपं वाराणसीपुरपतिं भज विश्वनाथम्॥6॥ रागादिदोषरहितं स्वजनानुरागं वैराग्यशान्तिनिलयं गिरिजासहायम् माधुर्यधैर्यसुभगं गरलाभिरामं वाराणसीपुरपतिं भज विश्वनाथम्॥7॥ आशां विहाय परिहृत्य परस्य निन्दां पापे रतिं च सुनिवार्य मनः समाधौ। आदाय हृत्कमलमध्यगतं परेशं वाराणसीपुरपतिं भज विश्वनाथम्॥8॥ वाराणसीपुरपतेः स्तवनं शिवस्य व्...

!! श्री लिङ्गाष्टकम् !!

चित्र
!! श्री लिङ्गाष्टकम् !! ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम्। जन्मजदुःखविनाशकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥1॥ देवमुनिप्रवरार्चितलिङ्गं कामदहम् करुणाकर लिङ्गम्। रावणदर्पविनाशनलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम्॥2॥ सर्वसुगन्धिसुलेपितलिङ्गं बुद्धिविवर्धनकारणलिङ्गम्। सिद्धसुरासुरवन्दितलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम्॥3॥ कनकमहामणिभूषितलिङ्गं फणिपतिवेष्टित शोभित लिङ्गम्। दक्षसुयज्ञविनाशन लिङ्गं तत् प्रणमामि सदाशिव लिङ्गम्॥4॥ कुङ्कुमचन्दनलेपितलिङ्गं पङ्कजहारसुशोभितलिङ्गम्। सञ्चितपापविनाशनलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम्॥5॥ देवगणार्चित सेवितलिङ्गं भावैर्भक्तिभिरेव च लिङ्गम्। दिनकरकोटिप्रभाकरलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम्॥6॥ अष्टदलोपरिवेष्टितलिङ्गं सर्वसमुद्भवकारणलिङ्गम्। अष्टदरिद्रविनाशनलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम्॥7॥ सुरगुरुसुरवरपूजित लिङ्गं सुरवनपुष्प सदार्चित लिङ्गम्। परात्परं परमात्मक लिङ्गं तत् प्रणमामि सदाशिव लिङ्गम्॥8॥ लिङ्गाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ। शिवलोकमवाप्नोति शिवेन सह मोदते॥9॥ ॥ इति श्रीशिव लिङ्गाष्टकम् सम्पूर्णम् ॥

!! श्री शिवरामाष्टकस्तोत्रम् !!

चित्र
!! श्री शिवरामाष्टकस्तोत्रम् !! शिवहरे शिवराम सखे प्रभो, त्रिविधताप-निवारण हे विभो। अज जनेश्वर यादव पाहि मां, शिव हरे विजयं कुरू मे वरम्॥1॥ कमल लोचन राम दयानिधे, हर गुरो गजरक्षक गोपते। शिवतनो भव शङ्कर पाहिमां, शिव हरे विजयं कुरू मे वरम्॥2॥ स्वजनरञ्जन मङ्गलमन्दिर, भजति तं पुरुषं परं पदम्। भवति तस्य सुखं परमाद्भुतं, शिवहरे विजयं कुरू मे वरम्॥3॥ जय युधिष्ठिर-वल्लभ भूपते, जय जयार्जित-पुण्यपयोनिधे। जय कृपामय कृष्ण नमोऽस्तुते, शिव हरे विजयं कुरू मे वरम्॥4॥ भवविमोचन माधव मापते, सुकवि-मानस हंस शिवारते। जनक जारत माधव रक्षमां, शिव हरे विजयं कुरू मे वरम्॥5॥ अवनि-मण्डल-मङ्गल मापते, जलद सुन्दर राम रमापते। निगम-कीर्ति-गुणार्णव गोपते, शिव हरे विजयं कुरू मे वरम्॥6॥ पतित-पावन-नाममयी लता, तव यशो विमलं परिगीयते। तदपि माधव मां किमुपेक्षसे, शिव हरे विजयं कुरू मे वरम्॥7॥ अमर तापर देव रमापते, विनयतस्तव नाम धनोपमम्। मयि कथं करुणार्णव जायते, शिव हरे विजयं कुरू मे वरम्॥8॥ हनुमतः प्रिय चाप कर प्रभो, सुरसरिद्-धृतशेखर हे गुरो। मम विभो किमु विस्मरणं कृतं, शिव हरे विजयं कुरू मे वरम्॥9॥ नर हरेति परम् जन सुन्दरं, पठति...

!! श्री पशुपत्यष्टकम् !!

चित्र
!! श्री पशुपत्यष्टकम् !! ॥ ध्यानम् ॥ ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवर भीतिहस्तं प्रसन्नम्। पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम्॥ ॥ अथ स्तोत्रम् ॥ पशुपतिं द्युपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिम्। प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम्॥1॥ न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम्। अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम्॥2॥ मुरजडिण्डिमवाद्यविलक्षणं मधुरपञ्चमनादविशारदम्। प्रमथभूतगणैरपि सेवितं भजत रे मनुजा गिरिजापतिम्॥3॥ शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम्। अभयदं करुणावरुणालयं भजत रे मनुजा गिरिजापतिम्॥4॥ नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम्। चितिरजोधवलीकृतविग्रहं भजत रे मनुजा गिरिजापतिम्॥5॥ मखविनाशकरं शशिशेखरं सततमध्वरभाजिफलप्रदम्। प्रलयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम्॥6॥ मदमपास्य चिरं हृदि संस्थितं मरणजन्मजराभयपीडितम्। जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम्॥7॥ हरिविरञ्चिसुराधिपपूजितं यमजनेशधनेशनमस्कृतम्।...