!! श्री हरि शरणाष्टकम् !!


!! श्री हरि शरणाष्टकम् !!










ध्येयं वदन्ति शिवमेव हि केचिदन्ये

शक्तिं गणेशमपरे तु दिवाकरं वै।

रूपैस्तु तैरपि विभासि यतस्त्वमेव

तस्मात्त्वमेव शरणं मम दीनबन्धो॥1॥


नो सोदरो न जनको जननी न जाया

नैवात्मजो न च कुलं विपुलं बलं वा।

संदृष्यते न किल कोऽपि सहायको मे

तस्मात्त्वमेव शरणं मम दीनबन्धो॥2॥


नोपासिता मदमपास्य मया महान्तस्तीर्थानि

चास्तिकधिया न हि सेवितानि।

देवार्चनं च विधिवन्न कृतं कदापि

तस्मात्त्वमेव शरणं मम दीनबन्धो॥3॥


दुर्वासना मम सदा परिकर्षयन्ति

चित्तं शरीरमपि रोगगणा दहन्ति।

सञ्जीवनं च परहस्तगतं सदैव

तस्मात्त्वमेव शरणं मम दीनबन्धो॥4॥


पूर्वं कृतानि दुरितानि मया तु यानि

स्मृत्वाखिलानि ह्रदयं परिकम्पते मे।

ख्याता च ते पतितपावनता तु यस्मात्

तस्मात्त्वमेव शरणं मम दीनबन्धो॥5॥


दुःखं जराजननजं विविधाश्च रोगाः

काकश्वसूकरजनिर्निरय च पातः।

त्वद्विस्मॄतेः फलमिदं विततं हि लोके

तस्मात्त्वमेव शरणं मम दीनबन्धो॥6॥


नीचोऽपि पापवलितोऽपि विनिन्दितोऽपि

ब्रूयात्तवाहमिति यस्तु किलैकवारम्।

तं यच्छसीश निजलोकमिति व्रतं ते

तस्मात्त्वमेव शरणं मम दीनबन्धो॥7॥


वेदेषु धर्मवचनेषु तथागमेषु

रामायणेऽपि च पुराणकदम्बके वा।

सर्वत्र सर्वविधिना गदितस्त्वमेव

तस्मात्त्वमेव शरणं मम दीनबन्धो॥8॥


॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीहरिशरणाष्टकं सम्पूर्णम् ॥

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

श्री गणेश जी की आरती , ganesh ji ki aarti , गणेश जी की आरतीयां

Swastik kyu bnate hai स्वास्तिक क्यों बनाते है

गणेश जी आरती, सुखकर्ता दुखहर्ता वार्ता विघ्नाची-Ganesh ji ki aarati,shree vidhan haran Mangal Karan ki aarti , गणेश जी की आरतीयां