!! श्री दीनबन्ध्वष्टकम् !!
यस्मादिदं जगदुदेति चतुर्मुखाद्यं
यस्मिन्नवस्थितमशेषमशेषमूले।
यत्रोपयाति विलयं च समस्तमन्ते
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥1॥
चक्रं सहस्रकरचारु करारविन्दे
गुर्वी गदा दरवरश्च विभाति यस्य।
पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥2॥
येनोद्धृता वसुमती सलिले निमग्ना नग्ना
च पाण्डववधूः स्थगिता दुकूलैः।
संमोचितो जलचरस्य मुखाद्गजेन्द्रो।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥3॥
यस्यार्द्रदृष्टिवशतस्तु सुराः समृद्धिं
कोपेक्षणेन दनुजा विलयं व्रजन्ति।
भीताश्चरन्ति च यतोऽर्कयमानिलाद्या।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥4॥
गायन्ति सामकुशला यमजं मखेषु
ध्यायन्ति धीरमतयो यतयो विविक्ते।
पश्यन्ति योगिपुरुषाः पुरुषं शरीरे।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥5॥
आकाररूपगुणयोगविवर्जितोऽपि मदद
भक्तानुकम्पननिमित्तगृहीतमूर्तिः।
यः सर्वगोऽपि कृतशेषशरीरशय्यो।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥6॥
यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रवृन्दै
राराध्यते भवदवानलदाहशान्त्यै।
सर्वापराधमविचिन्त्य ममाखिलात्मा।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥7॥
यन्नामकीर्तनपरः श्वपचोऽपि नूनं
हित्वाखिलं कलिमलं भुवनं पुनाति।
दग्ध्वा ममाघमखिलं करुणेक्षणेन।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥8॥
दीनबन्ध्वष्टकं पुण्यं
ब्रह्मानन्देन भाषितम्।
यः पठेत् प्रयतो नित्यं
तस्य विष्णुः प्रसीदति॥9॥
॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीदीनबन्ध्वष्टकं सम्पूर्णम् ॥
यस्मिन्नवस्थितमशेषमशेषमूले।
यत्रोपयाति विलयं च समस्तमन्ते
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥1॥
चक्रं सहस्रकरचारु करारविन्दे
गुर्वी गदा दरवरश्च विभाति यस्य।
पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥2॥
येनोद्धृता वसुमती सलिले निमग्ना नग्ना
च पाण्डववधूः स्थगिता दुकूलैः।
संमोचितो जलचरस्य मुखाद्गजेन्द्रो।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥3॥
यस्यार्द्रदृष्टिवशतस्तु सुराः समृद्धिं
कोपेक्षणेन दनुजा विलयं व्रजन्ति।
भीताश्चरन्ति च यतोऽर्कयमानिलाद्या।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥4॥
गायन्ति सामकुशला यमजं मखेषु
ध्यायन्ति धीरमतयो यतयो विविक्ते।
पश्यन्ति योगिपुरुषाः पुरुषं शरीरे।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥5॥
आकाररूपगुणयोगविवर्जितोऽपि मदद
भक्तानुकम्पननिमित्तगृहीतमूर्तिः।
यः सर्वगोऽपि कृतशेषशरीरशय्यो।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥6॥
यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रवृन्दै
राराध्यते भवदवानलदाहशान्त्यै।
सर्वापराधमविचिन्त्य ममाखिलात्मा।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥7॥
यन्नामकीर्तनपरः श्वपचोऽपि नूनं
हित्वाखिलं कलिमलं भुवनं पुनाति।
दग्ध्वा ममाघमखिलं करुणेक्षणेन।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥8॥
दीनबन्ध्वष्टकं पुण्यं
ब्रह्मानन्देन भाषितम्।
यः पठेत् प्रयतो नित्यं
तस्य विष्णुः प्रसीदति॥9॥
॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीदीनबन्ध्वष्टकं सम्पूर्णम् ॥