!! श्री सूर्याष्टकम् !!
आदिदेव नमस्तुभ्यं
प्रसीद मम भास्कर।
दिवाकर नमस्तुभ्यं
प्रभाकर नमोऽस्तुते॥1॥
सप्ताश्वरथमारूढं
प्रचण्डं कश्यपात्मजम्।
श्वेतपद्मधरं देवं तं
सूर्यं प्रणमाम्यहम्॥2॥
लोहितं रथमारूढं
सर्वलोकपितामहम्।
महापापहरं देवं तं
सूर्यं प्रणमाम्यहम्॥3॥
त्रैगुण्यं च महाशूरं
ब्रह्माविष्णुमहेश्वरम्।
महापापहरं देवं तं
सूर्यं प्रणमाम्यहम्॥4॥
बृंहितं तेजःपुञ्जं च
वायुमाकाशमेव च।
प्रभुं च सर्वलोकानां
तं सूर्यं प्रणमाम्यहम्॥5॥
बन्धूकपुष्पसङ्काशं
हारकुण्डलभूषितम्।
एकचक्रधरं देवं
तं सूर्यं प्रणमाम्यहम्॥6॥
तं सूर्यं जगत्कर्तारं
महातेजःप्रदीपनम्।
महापापहरं देवं
तं सूर्यं प्रणमाम्यहम्॥7॥
तं सूर्यं जगतां नाथं
ज्ञानविज्ञानमोक्षदम्।
महापापहरं देवं
तं सूर्यं प्रणमाम्यहम्॥8॥
॥ इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम् ॥
प्रसीद मम भास्कर।
दिवाकर नमस्तुभ्यं
प्रभाकर नमोऽस्तुते॥1॥
सप्ताश्वरथमारूढं
प्रचण्डं कश्यपात्मजम्।
श्वेतपद्मधरं देवं तं
सूर्यं प्रणमाम्यहम्॥2॥
लोहितं रथमारूढं
सर्वलोकपितामहम्।
महापापहरं देवं तं
सूर्यं प्रणमाम्यहम्॥3॥
त्रैगुण्यं च महाशूरं
ब्रह्माविष्णुमहेश्वरम्।
महापापहरं देवं तं
सूर्यं प्रणमाम्यहम्॥4॥
बृंहितं तेजःपुञ्जं च
वायुमाकाशमेव च।
प्रभुं च सर्वलोकानां
तं सूर्यं प्रणमाम्यहम्॥5॥
बन्धूकपुष्पसङ्काशं
हारकुण्डलभूषितम्।
एकचक्रधरं देवं
तं सूर्यं प्रणमाम्यहम्॥6॥
तं सूर्यं जगत्कर्तारं
महातेजःप्रदीपनम्।
महापापहरं देवं
तं सूर्यं प्रणमाम्यहम्॥7॥
तं सूर्यं जगतां नाथं
ज्ञानविज्ञानमोक्षदम्।
महापापहरं देवं
तं सूर्यं प्रणमाम्यहम्॥8॥
॥ इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम् ॥